________________
महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धानमहाकाव्ये
क्षेपे - विलम्बे राजकार्याणां सम्पादन कालाऽतिपाते वा मतिः- बुद्धिः विचारो वा प्रतीता - प्रसिद्धा एवाऽस्ति ।
१४
लोकेऽपि खले- धान्यमर्दनस्थले बहुधान्य पातात् - बहूनां प्रचुराणां धान्यानां - शालि गोधूमादिवीहीणां पातात् मर्दनार्थ पक्षेपात् नृपस्य -. तत्स्वामिनः खेटकादेः विक्षेपणाक्षेपमतिः - विक्षेपणे पूर्व प्रसारणे तदनु आक्षेपे - दूरं विकीर्णानां समूहन्यादिना राशिकरणे च मतिः- मनः प्रवृत्तिः प्रतीता - ख्याता एव ।
--
पूर्वत्र खलनीत्या नृणां - राजपुरुषाणां मुखे - निःसरणे निर्गमन = प्रवेशमार्गे इत्यर्थः विषये निबन्धेन- नियमनेन प्रतिबन्धजननेन सता निजार्जितस्य - खोपार्जितस्य वेतनादेः मनाग्- अल्पमपि भोगः- उपभोगः सुखं वा न संभवतीत्यर्थः ।
यद्वा नृणां विपश्चिन्मनुजानां मुखे- प्रवेशे निबन्धेन निजार्जितस्य - खोपार्जितविद्यादेः मनाग् भोगः - उपयोगः विद्यालाभजन्यमै - हिक सुखं वा न समस्ति भवितुमित्यर्थः । विद्यावतां बाणभट्टादीनामिव राज्ञः श्रीहर्षादेरिव ऐहिक सुखसाधनधनलाभे सत्येव विद्याया ऐहिकोपयोगः । राजधान्यां खलप्रवेशे तु विदुषां प्रवेशस्थाप्यसम्भवः विद्याचमत्कारप्रदर्शन परितुष्ट नरेन्द्र दित्स्यखापतेयाद्यात्मक पुरस्कारादेस्तु कथैव का ।
अन्यत्रापि स गवां-वृषभाणां - मुखे तुण्डे निबन्धेन-नितरांबन्धनेन निजार्जितस्य - हलकर्षणादिव्यापारजन्यतया स्वोपार्जितपलालादेरपि मनाग भोगः न भवति ।
शब्दाऽर्थोभयश्लेषः । उपमालङ्कारध्वनिः । खलः कल्के भुवि - स्थाने क्रूरे कर्णेजपेऽधमे इतिहैममैदिन्यो मुखं निःसरणे वक्रे प्रारम्भो