SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतमरिप्रणीता सरणी टीका. अन्वयः-गवां स्वभुक्तो यः खलादरः भवेत् [असौ] पशूनां गिवाम्] उचितः, नतु नृणाम्। स गो:पतित्वात् यदि भूपसर्गे स्यात् तत् ईश्वरस्य ध्रुवं पाशुपत्यं भवेत् ॥ ९ ॥ व्याख्याः--गवां धेनूनां स्वभुक्तौ-स्वाहारे विषये यः खलादरः खलं तिलकल्कः धान्यमर्दनभूमिश्च तत्राऽऽदरः स्नेहः असौ पशूनाम् उचितः योग्यः अगर्हणीयः भवेत् न तु नृणां मनुष्याणामपि । ___ दुर्जनेषु प्रीतेः तेभ्य स्वासस्य तिलकल्काशनस्य च मनुजाना मनौचित्यात् । तथा च सः-खलादर:-खले-नीचे आदरः गोंः पतित्वात्-गौः (सौरभेयी पृथ्वी च तस्याः पतित्वात्-स्वामित्वात तत्साम्यादिति भावः, यदि भूपसर्गे-नृपस्वभावे नृपसाम्राज्ये वा स्यात् तत्-तदा ईश्वरस्य-राज्ञः पाशुपत्यं पशुपतित्वं मूर्खशिरोमणित्वं ध्रुवं निश्चित स्याद् शब्दसाम्येन छलितत्वात् ॥ स्वर्गेषु पशुवाग्वज्र दिग्नेअघृणिभूजलेगौरित्यमरः ॥ ९ ॥ खले प्रतीता बहुधा-न्यपाताद, विक्षेपणा क्षेपमतिर्नृपस्य । मुख निबन्धेन गवां नृणां वा, निजार्जितस्यापिमनाग न भोगः॥१०॥ अन्धयः-खले बहुधा-न्यपाताद् नृपस्य, विक्षेपणाक्षेपमतिः प्रतीता । नृणां गवां वा मुखे निबन्धेन निजार्जितस्यापि मनाग भोगःन ॥ १०॥ व्याख्या-खले दुर्जने विद्यमाने सति बहुधा बहुप्रकारेण अन्यपातात् अन्येषां-परेषां खलानुमतानां पातान् आपतनात् प्रवेशात नृपस्य खलाधीनसर्वराज्यतन्त्रतया विक्षेपणाक्षेपमतिः-विक्षेपणे अमिमतानों द्रीकरणे आक्षेपे-मान्यानां गहणे च आसमन्ताद
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy