________________
१२ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये त्याज्यः स राज्यात्पुरतोऽपिराज्ञा,
भायात्सभाया न रुचिः खलेऽस्मिन् । यत्र द्रुमाः कण्टकिनः पुरस्ता
त्स दुष्प्रवेशः सुमनःप्रदेशः ॥ ८॥ [अन्वयः]-अस्मिन् खले सभाया रुचिः न भायात् [ इति ] राज्ञा राज्यात् पुरतोऽपि स त्याज्यः । यत्र पुरस्तात्कण्टकिनो द्रुमाः स सुमनःप्रदेशः दुष्प्रवेशः ॥ ९ ॥
व्याख्या-अस्मिन् खले-पिशुने विषये सभाया: समाजस्व जनताया इत्यर्थ रुचिप्रीतिः न भायात्-शोभेत यद्वा अस्मिन् खले सति सभाया रुचिः कान्तिः नभायात्-प्रकाशेत् विवादोत्थानसंभचात् । अथ वा अस्मिन् खले सभाया न रुचिः-राजपरिषत्प्रवेशाऽभिरुचिः भायात् एवं समम्भाव्यते इति हेतोः राज्ञा-तृपेण शास केनेतिभावः राज्यात्-बाजधान्याः राष्ट्राद्वा पुरतः स्वाग्रतः नगराद्वा गृहाद्वा अपि त्याज्या वर्जनीयः निष्कासनीय इत्यर्थः अमुमथ दृष्टान्तेन दृढयन्नाहयोति यत्र सुमनःप्रदेशे पुरस्तात प्रवेशमार्गस्थाग्रतः कण्टकिन-स कण्टकाः द्रुमा-मार्गवृक्षा भवेयुः स सुमनसां-पुष्पाणांप्रदेशः सुमनः= प्रदेशः पुष्पवाटिकादिः दुष्प्रवेशः अशक्यान्तर्गमनो भवतीति लोके प्रसिद्धोऽयमर्थः । शब्दश्लेषो, द्रष्टान्तश्च पुरं नपुंसकं गेहे देह पाटलिपुत्रयोरितिमेदिनी स्थात्पुरः युरतोऽग्रत इत्यमरः ॥ ८॥ . खलादरो यश्च गवां स्वभुक्तो,
भवेत्पशूना मुचितो न नृणाम् । स गोः पतिवाद यदि भूपसर्गे,
तत्पाशुपत्यं ध्रुवमीश्वरस्थ ॥९॥