________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. " भारक्षमस्याऽपि नसोऽग्रवेधः,
सुमेधसाऽकारि सवेधसाऽपि ॥७॥ अन्वयः-हृदये काठिन्यभाजः खलस्य [काठिन्यभाजः खलस्य हृदये वा] शृङ्खलकस्य अङ्गे [च] का वक्रता न अस्ति] [यतः भारक्षमस्यापि नसो ऽअवेधः सुमेधसाऽकारि, स वेधलाऽपि अस्य [अकारि] __व्याख्या-हृदये मनसि काठिन्यं नैष्ठ्यं भजते स काठिन्यभाक् तस्य तादृशस्य खलस्य-दुर्जनस्य, हृदये मनसि काठिन्यदाढयं भजते तादृशस्य शृङ्खलकस्य-उष्ट्रस्य अङ्गे च का वक्रता क्रूरता अन्यत्र कुटिलता भुग्नतेत्यर्थः न अस्ति सर्वाप्यस्तीत्यर्थः खलानां क्रूरहृदयत्वात् उष्ट्राणां च कुटिलबहुलाऽपधनत्वात् । अत एव भारक्षमस्य कर्षण वाहनयोग्यतादिधुरंवोढुं शक्तस्य शृङ्खलकस्य नस:नासिकायाः अग्रवेधः-पुरोवेधनं सच्छिद्रीकरणं सुमेधसा-कर्षणवहनादिक्षमताऽवगतिमेधाविना कृषीवलादिना अकारि व्यधायि: के. धसान्ब्रह्मणाऽपि सः प्रक्रान्तः अग्रवेधा=अग्रे-प्रथमंवेधः व्यधनं हिंसनं खलस्य नैसर्गिकतया अकारीत्यर्थः । यद्वा साम्खलः अपि वेधसा अग्रवेधः अग्र-पूर्व विध्यति छिनत्ति स तथोक्तः हिंस्रस्वमावकः अकारि। यद्वा अग्रवेधः वेधः विवाहादिशुभकार्यवर्ण्य नक्षत्र विशेषस्थितग्रहभेदकृतसंसर्गः 'वेधं सर्वत्र वर्जयेदितिज्यौतिपोक्तेः तथा च अग्रे=आदौ वेध इव अग्रवेधः वर्जनीय इतिभावः अकारि । ... ,
हृदयं वक्षसि स्वान्ते बुक्कायामितिहैमः । चक्रः कुटिले कर भौमयोरितिहैमः । काठिन्यभाजः खलस्य हृदये काऽपि वक्रता
(अस्ति) या शृङ्खलकस्यापि अङ्गे न वर्तते । यतः भारक्षमस्यापि । तस्य सोऽगुवेधःसुमेधसावेधसाऽपि नाकारि इति तु ज्यायः।