________________
१० महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये उच्छृङ्खलाकि खलतो न बिभ्येत्,
सभ्यस्तथेभ्यः परमार्थनाशात् ॥ नाशा ह्य नाशा किमु वर्धनीया,
होनस्य सकर्णतायाम् ॥६॥ (अन्वयः)-इभ्यः परमार्थनाशात् तथा सभ्य उच्छृङ्खलात् खलतः किं न बिभ्येत् श्रुत्याविहिनस्य सकर्णतायाम् अनाशा आशा किमु न वर्द्धनीया?॥६॥
व्याख्या-इम्यःआढ्यः परमार्थनाशात् परमार्थस्य उत्कृष्टाभीष्ट यस्तुनः मूलधनादेः नाशात् अपायात् तथा-इव सभ्यः सजनः उच्छृङ्खलात-उद्गतः शृङ्खलातः इत्युच्छृङ्खला मर्यादादिवन्धनरहितः नीत्यादिनियन्दरहितो वा तस्मात्तथोक्तात् खलत:-दुर्जनात् किं न बिभ्येत्भयमाप्नुयात् ननु खलस्थापि शास्त्रश्रवणादिना सौजन्य किं न स्यादित्याशङ्कायामाह 'नाशा' इति श्रुत्या-शास्त्रश्रवणेन विहीनस्य वर्जितस्य अकृतशास्त्राभ्यासस्य श्रवणशक्तिरहितस्य बधिरस्येत्यप्यर्थो गम्यते. सकर्णतायाम् श्रुतितत्परतायाम् शास्त्राभ्यासादिक्षमतायामित्यर्थः अभिज्ञतायामिति यावत् अन्यत्र श्रवणक्षमतायामिति गम्यते अनाशा-न आशा दिक् परिच्छेदो यस्यां सा तथोक्ता अपरिच्छिन्नेत्यर्थः आशा=अशक्योपायार्थविषयिणी दीर्घाऽऽकाङ्क्षा अनधिगतविषयातृष्णा वा किमु न बर्द्धनीया-वृद्धिं नेया. वर्धनीयवेत्यर्थः भैषज्यादिसेवनेन कर्णवाधिर्यमिव शास्त्रश्रवणादिना खलानामपि औभृत्यं दूरीभूय जातसौजन्यतया भयाऽजनकत्वं सम्भवतीतिभावः । अर्थान्तरन्यासः ।। ६ ।। काठिन्यभाजो हृदये खलस्य,
का वक्रता शृङ्खलकस्य नाङ्गे ॥