________________
आचार्यश्रीविजयामृतमग्रिणीता सरणी टीका. .
. .५
अन्वयः-नीचः सजनवत् किं न वन्यते ? मुखेन दोषाकरबत् समानः।
सदा सदम्भः सबने सशौच:, काव्येषु सद्भावनया न मूढः ॥ ५ ॥ व्याख्या-नीचा दुर्जनः सज्जनव-सत्पुरुष इव किं न वन्द्यते अभिवाद्यते स्तूयते वा उभयोः समत्वात् । साम्यं दर्शयति-मुखेन दोषाकरवत्-दोषा रात्रिं करोतीति सः तेन तुल्यं तद्वत् चन्द्रसदृशः, समानासह मानेन-सम्माननेन पूजा सत्कारेण वर्नते इति स तथोक्तः सदम्भःसबने सत्-सत्यमेवाऽम्भः जलं तस्मिन् सबनेमाने अनुशीलने स शौचा=सनैमल्यः पवित्रः सत्यनिष्ठ इत्यर्थः । काव्येषु सद्भावनया उत्कृष्टभावनया न मूढः उत्तमविचारणया हेतुना न मूढः न अनभिज्ञः यद्वा-काव्येषु सद्भावनयानमूढ इति समस्तं, काव्यस्य इषुषु-गुणेषु सद्भावनं सद्विचारस्तत्रयानं गमनम् ऊढःप्राप्त इत्यर्थः। अत्र दुर्जनस्य व्याजस्तुत्या सर्वथाऽवन्धत्वमेव सोसूच्यते सज्जनतोमहदन्तरत्वात् तथाहि नीचः मुखेन दोषाकरवत्समाना दोषाणां दुर्गुणानामाकरः राशि रस्त्यासौ दोषाकरवान् तेन समानः सदृशः गुह्यप्रकाशनादिदुर्गुणोदीरणकरणतया वदनेन दोषपुञ्जविशिष्टतुल्यः ।
यद्वा दोषाऽऽकर इत्र दोषाकरवत् । समानः साऽहङ्कारः सदासदम्भः सकपटः, सबने मद्यसन्धाने उपलक्षणतयातदादिकार्येऽसशौ चा शौचेन सहितः सशोचः स नभवतीत्यसशौचः अशुचिरित्यर्थः। यद्वा सदम्भः सवने सत्पक्षपातकरणे सशौचा-शुचेव शौच-शोकः खार्थिकः प्रज्ञाधण तेन सहितः संशौचासशोक इत्यर्थः । काव्येषु सद्भावन-यान-मूढः सद्भावने-सद्विचारे यानं गमन तस्मिन् मूढः विकलः अपटुः ॥ उपमा, अर्थश्लेषः, सभङ्गशब्दश्लेषः, व्याजस्तुतिश्चालङ्काराः ॥ सवनं त्वध्वरें स्नाने सोमनिर्दलनेपिचेतिमेदिनी ॥५॥