SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ८ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये व्याख्या-इह आगमादौ शास्त्रादौ अर्थात् अस्मिन् काव्यादौ सा भुवनविदिता निपुणा दक्षा पूर्णत्यर्थः ब्राह्मी सरस्वती "ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वतीत्यमरः" अव्यात् पायात् यस्याः सरस्वत्या भारत्या नद्याः पवित्रायाः सर्वश्वेतायाः रसांगात् रसस्याखादस्य अनुभवस्येत्यर्थः अङ्गात् उद्यमात् यत्नात् कमलोदयश्रीः कमलाया लक्ष्म्याः सम्पदः उदयश्रीः समभ्युदयसम्पत् द्रवसुप्रसादात् द्रवति नियतीतिद्रवः स्नेहः प्रसन्नता इति यावत् तस्य परिहासस्य सुप्रसादात् सत्कृषातः सिताम्बराणां निर्मलबमनानां देवानां जनतानुवृत्तिः जनतायां मनुष्ये अनुवृत्तिरागमनम् स्तुत्यालम्बनतया जनानुकम्पनमिति भावः अथ च सिताम्बराणां श्वेताम्बराणां आर्हतानां जनतानुवृत्तिः लोकसदुपदेशानुसरणम् अद्यापि अधुनापि भवतीति शेषः। नदीपक्षे च-यस्या नद्याः नदीरूपायाः सरस्वत्याः सरस्वत्यभिधानायाः रसांगात् जलरूपात् कमलोदयश्रीः कमलानां मोजानाम् उदय श्रीः समुद्भवश्रीः सद्विकाशशोभेत्यर्थः द्रवप्रसादात् प्रवाह सुप्रभावात् सिताम्बराणां अम्बते शब्दं करोतीत्यम्बः शब्दः तं गतिगृह्णातीति अम्बरः पक्षः सितौ अम्बरौ येषां ते सिताम्बराः हमाः तेषां जनतानुवृत्तिः मानससरात् नरक्षेत्रे अनुवृत्तिनुमतिरद्यापीदा. नीमपि भवतीति शेषः। मुखेन दोषाकरवत् समानः, सदा-सदम्भः सवने सशौचः । काव्येषु सद्भावनयानमूढः, किं वन्दयते सजनवन्ननीचः? ॥ ५॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy