________________
.
.
.
.a
.
v
.
.
.
.
.
.
४२४ महोपाध्यायश्रीमेघविजयगणिविरषिते समसाधानमहाकाब्बे
व्याख्या-विभोजिनेन्द्रप्रभोः कीा यशसा सहेति शेषः नयानाम् प्रसुप्रचारितसबीतीनां विभावनया विचारेण सुधाशनानाम् सुधाया अमृतस्य अशनम्भक्षणन्तेषाममृतभोजनानां मुधाविधानेन मिथ्याविधानेन निरर्थकत्वेन " यदा प्रमुगुणाः कर्णनस्वादुमाखाद्यते तदा सुधाशनं अनेकप्रयत्नपलब्धसुधाभोजनम्व्यर्थनीरसत्वादिति भावः " गन्धर्वमुच्चैःश्रवसं विधाय गन्धर्व गानम् प्रभुकीर्तिमानम् उच्चैःश्रवसं उच्चैः श्रवणं विधाय कृत्वा प्रभुकीर्तिगानमाकण्ठं श्रुत्वा त्रिलोकी त्रयाणां लोकानां समाहारत्रिलोकी त्रिजगत् कचिद यत्र कीर्तिश्रवणम्भवति तत्रैव विशल्या दुःखरहिता विहिता कृता कीर्तिश्रवणेन सर्वेषा त्रिविधदुःखमुन्मूलितं भवतीति भावः ॥
__अन्यत्र । विशल्या लक्ष्मणपत्नी त्रिलोकी गंधर्वमुच्चैःश्रवसं विधाय त्रिलोक्यां तदीयकीर्तिमतिशयं श्रुत्वा विहिता पत्नीत्वेन स्वीकृता लक्ष्मणेन विवाहितेति तात्पर्यम् ॥५॥ मनोरमा वा रतिमालिका वा,
रम्भापि सा रूपवती प्रिया स्यात् । न सुत्यजा स्याद् वनमालिकापि,
कीर्तिर्विभोर्यत्र सुरैनिपेया ॥६॥ भन्दयः--सुरैर्यत्र प्रभोः कीर्तिनिपेया तत्र मनोरमा वा इति मालिका वा रूपवती सारंभा वनमालिकापि न सुत्थजा स्यात् किन्तु मुत्यजैव ॥ ६ ॥ ___ व्याख्या- यत्र विभोर्जिनेन्द्रस्य कीर्तिः सुरैर्देवैर्निपेया पीता प्रभुकीर्तिः सादरेण श्रुता तत्र मनोरमा इति मालिका वा रूपवती सा प्रसिद्धा रम्भापि प्रिया मनोज्ञा स्यात् किन्नैव सा प्रेयसीभवितुमईति कीतौं समधिकमाधुरीत्वात् . वनमालिकापि न मुत्यजा स्यात्