SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिमणीता सरणी टीका. सर्ग-९ ४२५ जानामि अष्टदिग्भ्यस्तदीयकीर्तिश्रवणायैव विधिःखकर्णमष्टधाऽधादित्यहम्मन्ये जानामीति क्रियागतोत्प्रेक्षोपमा ॥ अन्यत्र प्रभावती पार्श्वनाथप्रभोः पत्नी यत्महसा स्वसौभाग्येन अभ्रतारा विभोः पार्श्वप्रभोः कीर्तस्तच्छ्रवणाय विधिः स्त्रश्रुतीः अष्टौ विधत्ते इति ॥ ३॥ प्रभोः प्रवृत्तिं बहुधा यशोदा मनोविनोदात् सुमनःसमूहाः । गायन्ति नाके तरवः सुराणां, तान् वर्धयन्ते कुसुमैर्भदम्भात् ॥४॥ भन्वयः-यशोदा सुमनः समूहा मनोविनोदात् प्रभोः प्रवृत्ति बहुधानाके गायन्ति सुराणां तरवः तान् भदम्झात् कुसुमैर्वर्धयन्ते ॥ ४ ॥ व्याख्या-यशोदा: यशो ददतीति यशोदाः यशोदातारः सुमन:समूहाः सुमनसान्देवानां समूहाः वृन्दाः वृन्दारकवृन्दाः मनोविनोदात् हृदयोल्लासात् प्रभोजिनेन्द्रस्य रामस्य कृष्णस्य च प्रवृत्ति पुण्यचरितं कीर्तिमित्यर्थः बहुधा अनेकशः नाके स्वर्गे गायंति वर्णयति तान् प्रभुकीर्तिगायकान् देवान सुराणां देवानां तरकः कल्पवृक्षाः भदम्भाव ताराच्छलाद कुसुमैः प्रसूनैः वर्धयन्ते वर्धापयन्ति नीराजयन्तीति भावः ।। ४ ।। गम्योत्प्रेक्षा। क्वचिद् विशल्या विहिता त्रिलोकी, गन्धर्वमुच्चैःश्रवसं विधाय । कोर्त्या विभोर्भावनीया नयानां, मुधा विधानेन सुधाशनानाम् ॥ ५॥ अन्वयः--विभोः कीयां नयानां मावन या सुधाशनानां मुधाविधानेन गन्धर्वमुच्चैःश्रवसं विधाय त्रिलोकी कचिद्विशल्या विहिता ॥ ५ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy