________________
१२२ महोपाध्यायधीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये यथा व्यावर्णनीया शतलब्धवर्णैः शतानि शतसंख्यका अथवा शतशब्दस्यानेकसंख्यावाचकत्वात अनेकसंख्यका ये लब्धवर्णाः पण्डितास्तैरनेककविभिावर्णनीया विख्यापनीया कीर्तनीयेत्यर्थः अन्यत्र शतानि लब्धानि वर्णानि रूपाणि यैस्तैः शतलब्धवर्णैः अनेकवर्णैः पक्षि. भिः व्यावर्णनीया कीर्तनीया "लब्धत्रों विचक्षण इत्यमरः" नैर्मल्यवृत्तेः नैर्मल्यस्थितौ नैर्मल्यविधौ निर्मलतायामित्यर्थः तदुग्रजात्याः अत्युच्चकोटिभूतायाः अन्यत्र उच्चैमिरिसंभूतायाः पयसां प्रवृत्तेः जल. धाराया इवेति शेष: "यथा उग्रजातिः अत्युग्ररूपा जलधारा निसर्गनिमला भवति तथेयमिति भावः" स महानुभावः यस्यैतादृशी कीर्तिः स इति शेषः महानुभावः महाशयः ।।
यशोमती महावीरस्वामिनो धर्मपत्नी सापि यथोक्तविशेषणवि. शेषिता इति ॥ २॥ प्रभावती यन्महसाऽभ्रतारा,
सायंप्रकाशाद् बहुबन्दिपाठैः। की विभोस्तच्छ्रवणाय मन्ये
ऽष्टौ स्वश्रुतीस्तेन विधिविधत्ते ॥ ३ ॥ अन्वयः-प्रभावती यन्महसा अभ्रतारा बहुबन्दिपाठः सायंप्रकाशान् विभोः कीर्तेः तच्छूवणाय विधिस्तेन अष्टौ स्त्रश्रुतीविधत्ते इस्यहम्मन्ये ॥ ३ ॥
व्याख्या-प्रभावती विद्योतमाना यत् यस्मात् या कीर्तिर्विभोजिनेन्द्रस्य काव्यनायकानां वास्तीति शेषः सा कीर्तिः सायं प्रकाशात् रात्री प्रकाशवाहुल्यात् महसा तेजसा प्रकाशविशेषेण अभ्रतारा गग. नस्य तारका इवेत्यर्थः विभोः प्रभोः कीसेयशसा बहुबन्दिपाठैः अने. कस्तुतिपाठकैर्मागधजनैस्तद्वारा तत् श्रवणाय श्रोतुं विधिब्रह्मा अष्टौ अष्टसंख्यकाः स्वश्रुती: श्रवणेन्द्रियाणि विधत्ते विरचतीत्यहम्मन्ये