SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयास्तरिप्रणीता सरणी टीका. सर्ग-९ १२॥ . .. Annnnnn ॥ अथ नवमः सर्गः ॥ अथार्ककीर्तेः प्रससार कीर्तिर्देवस्य वश्यं भुवनं विधातुम्। मूव कल्याणवती सुनन्दा सुमङ्गलाङ्गोन्नयनेऽनुषक्ता १ अन्वयः-अथ अर्ककीर्देवस्य भुवनं वश्यं विधातुं मूत्र कल्याणवती सुनन्दा सुमंगलांगोनयनेऽनुषक्ता कीर्तिः प्रससार ॥ १ ॥ व्याख्या-अथ अथानन्तरम् अर्ककीर्तेः अर्क सूर्यः इन्द्रो वा स्फटिकमणि विष्णुवा स इव कीर्तिः प्रतिष्ठा यस्य तस्य "प्रकाशक. त्वात् सर्वशक्तिमत्वात् निर्मलत्वात् सत्यगुणमात्राश्रयत्वाच्चोपमानत्वं सर्वेषाम्" देवस्य दीप्तिमतः भुवनम् लोकम् जगत् "विष्टपं भुवनं ज. गदित्यमरः" वश्यं खानुकूलं वाधीनं विधातुं भूर्तेत्र कल्याणवती मूर्ती सत्स्वरूपा कल्याणवती कल्याणयुक्ता सुनन्दा सुष्टु नन्दयतीति सुनन्दा आनन्ददायिका सुमंगलांगोनयनेऽनुषक्ता सुमंगलस्य कल्याणस्य भद्रस्ये त्या अगोनयने अङ्गोत्थाने अनुषक्ता अनुरक्ता कीर्तिः समज्ञा प्रतिष्ठेति यावत् प्रससार पप्राथ ॥ १॥ अत्र सर्गे उपजातिवृतिः ॥ आदीश्वरपक्षे-सुनन्दा सुमंगलाभिधाने पत्नीद्वये कीःरुषायने विस्तारणे अनुषक्ता व्यापृतेति भावः ॥१॥ यशोमती नाम परैव सिन्धुावर्णनीया शतलब्धवणेः। नैर्मल्यवृत्तेः पयसां प्रवृत्तेस्तदुग्रजात्याः स महानुभावः॥२॥ अन्वयः-यशोमती नाम परासिन्धुरेच शतकाधवर्गावर्णनीया नैर्मल्यवृत्तेः पयसां प्रवृत्तेः तदुप्रजात्याः स महानुभावः ॥ २ ॥ व्याख्या-यशोमतीनाम परैव सिन्धुः यशोमती नाम्नी परा काचित् अन्या जलप्रवाहरूपतो भिमासिन्धुनंदी एव उभयोर्विशेषणं
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy