________________
११. महोपाध्यायश्रीमेघविजयगणिविरचिते सक्षसम्मानमहाकाव्ये त्यर्थः विजयते सर्वोत्कर्षेण वर्तते नाम्ना अभिधेयेन प्रसिद्धिसहिता प्रख्यातियुता सिद्धिरपि अणिमाद्यष्टसिद्धिरपि सर्वेहितार्थे सर्वेषामीहितः सर्वहितः स चासो अर्थश्चेति सर्वहितार्थः तत्र हिता अनुकूला साभ्युदया श्रेयस्करी बुद्धिर्मतिः सतां सजनानां मव्यानामित्यर्थः समुदयानन्दाय अभ्युदयसुखाय संजायते सम्पद्यते श्रीसार्वप्रभुः अहप्रभुः सर्वेभ्यो हितः सार्वः स चासौ प्रभुश्चेति सार्वप्रभुः सर्वपुरुषाभ्यां णढाविति णः ५ पं. त्रु. सर्वजनीना सार्वभौममाहितः सार्वभौमेन चक्रवर्तिना नृपेणेति शेषः महितः पूजितः इति सार्वभौममाहितः सार्वप्रभुश्वासौ सार्वभौममहि तश्चेति श्रीसार्वप्रभुमार्वभौममहिता स जिनेन्द्रः भूयः पुनः पुनः श्रिये निरतिशयानन्दाय भूयात् स्तात् अत्र श्लोके शार्दूलविक्रीडितम् ।। २८ ॥
इन शास्त्रविशारद-कविरत्न-महारकाचार्य श्री विजयामृतसूरीश्वरप्रणीतायां सप्तसंधानमहाकाव्यीय "सरणी' टीकायां भष्टमः सर्गः ॥ ८ ॥