________________
भाचार्यश्रीविजयामृप्तसूरिप्रणीता सरणी टीका, सर्ग-४ ४९ विभवसंभवसंज्ञतुरङ्गमम् विभवस्य सर्वसंपत्तेः संभव उत्पत्तिरिति विभवसंभवः सम्यक् जानातीति संज्ञः "आतश्योपसर्गे इति जानाते का" बुद्धिमान तुरं शीघ्रं गच्छतीति तुरंगमः अश्वः विभवसंभवश्च संज्ञश्च तुरंगमश्वेत्येषां द्वन्द्वः इति विभवसंभवसंज्ञतुरंगमानि यत्र तत् अथवा विभवसंभवसंज्ञौ तदभिधानौ तुरंगमौ जात्यश्वौ यत्र तत् 'रमदोबलनायकम् रमम् शोभमानं दोबलम् बाहुबलं यस्य स रमदोबलः रमदोबलो नायको यत्र तत् यद्वा रमं दोर्यलम् यस्य स रमदोबरः रमदोर्वलो नायको यत्र तत्' सुरसभारसभासि सुगणां देवानां सभा परिषत् इति सुरसभा तस्याः रसः अनुरागः सुरसभारसः तेन भासितुं प्रका. सितुं शीलमस्येति तत् सुरसभारसभासि अथवा सुष्ठ राति ददातीति सुरः तस्य सभा तया भासि विकस्वरम् अथ च सुरः पंडितः तस्य सभा तया भासि भासनशीलम् भविष्यति जनिध्यति ॥ २७ ॥ यमकः । राज्यादिस्थितिरता विजयतेऽद्यापि प्रभोस्तेजसा, नाना सिद्धिरपि प्रसिद्धिसहिता सहितार्थे हिता। बुद्धिः साभ्युदया सतां समुदयानन्दाय संजायते, श्रीसाईप्रभुसार्वभौममहितो भूयात् स भूयः श्रिये॥२८॥ इति श्रीसप्रसंधाने महाकाव्ये महोपाध्यायश्रीमेधविजयमणि कृते ___दिग्विजयवर्णनो नामाष्टमः सर्गः संपूर्णः ॥ श्रीः॥
अन्वयः- अद्यापि प्रभोस्तेजसा राज्यादिस्थितिः अद्भुता नाम्ना सिद्धिरपि प्रसिद्धिसहिता सर्वेहितार्थे हिताः सतां समुदयानन्दाय साभ्युदया बुद्धिः संजायते श्रीसार्वप्रभुसार्वभौममहित: स भूयःश्रिये भूयात् ॥ २८ ॥ ___ व्याख्या--प्रभोजिनेन्द्रस्य तेजसा प्रभावेण अद्यापि अधुनापि राज्यादिस्थितिः राज्यादिमर्यादा अद्भुता सर्वातिशायिनी विलक्षणे