________________
४१८
महोपाध्यायनीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
____ व्याख्या-भगवतां जिनेन्द्राणां उदयेन आविर्भावेन पुनरपि भूयोऽपि प्रबलाकृतिकौशला प्रबला महती या आकृतिः स्वरूपम् सा प्रबलाकृतिः तत्र कौशला चतुरा सा प्रबलाकृतिकौशला सुन्दराकृतिपटीयसी नवनवेभ्यनिवास विलासिनी नवनवः नून्नः य इभ्यः धनी यद्वा इभं हस्तिनमहतीति इभ्यः नृपः नवनवश्चासौ इभ्यश्चेति नवनवेभ्यस्तेषां निवासःस्थितिरिति नवनवेभ्यनिवासस्तेन विलासिनी शोभमाना अतिनूतननृपनिवासमनोहरा सुमतीशजयश्रिया सुष्टु मतिर्यस्य स सुमतिः स चासौ ईशश्चेति सुमतीशः तस्य जयश्रिया विज. यलक्ष्म्या वसुमती पृथ्वी " सर्वसहा वमुमती वसुधोर्वी वसुन्धरेत्य. मरः" भाविनी भवित्री पुनरपि जिनेन्द्रोदये पृथ्वी सर्वगुणविशिष्टा भविष्यतीति भावः ॥ २६ ॥ अनुप्रासः ।
अन्यत्र भगवतां भाग्यशालिनामुदयेन समभ्युदयेनेति पूर्वप्राय मन्यत् ।। २६ ॥ ध्रुवरमं वरमङ्गलसंगम,
विभवसंभवसंज्ञतुरङ्गमम् । पुरमदो रमदोर्बलनायकं,
___ सुरसभारसभासि भविष्यति ॥ २७ ॥
अन्वयः - भदः पुम् ध्रुवरमं वरमंगलसंगमम् विभवसंभवसंज्ञ तुरङ्गमम् रमदोबल नायकम् सुरसभारलभासि भविष्यति ॥ २७ ॥
व्याख्या-अदः पुरम् इदं नगरम् ध्रुवरमम् ध्रुवं निश्चितं सततं वा रमणं यत्र तत् अथवा ध्रुवनियतं रमा लक्ष्मीः शोभा संपत्तिर्वा यत्र तत् ध्रुवरमम् नित्योत्सवं नियतलक्ष्मीकं वा वरमंगलसंगमम् वरमंगलानां निरतिशयोत्सवानाम् संगमम् संबंधो यत्र तत्तथोक्तम्