________________
४००
महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसम्धानमहाकाम्ये
अभ्यर्णः अरुणस्य सूर्यसारथेमण्डलो येन स अरुणमण्डलसमीपस्थः स असांध्यरजोभरः सांध्यरजोभिन्नरजः सैन्यपदोत्थधूलीसमूहः सुसौरभाद्वयदृशां मुष्टु सौरभस्य अद्वयदशाम् अद्वितीयकान्तिम् यद्वा सुष्टु सौरभा सूर्य सम्बन्धिकान्तिः तस्या द्वयदशां द्वितीयावस्था अन्यसौरकान्तिम् विभोर्ब्रह्मणः अवदत् किमु अकथयत् किमूत्प्रेक्षेयमिति भावः ॥ ३॥ हरिपरिस्फुरितां दिशमाविशत् ,
स्थितिमुदीर्य विभुर्भरतं प्रति । शुभरते भरतेऽविरते रतेः,
प्रथमतोऽथ मतोऽवनिचक्रिणाम् ॥४॥ अन्वयः-- अथ विभुः हरिपरिस्फुरितान्दिशम् भाविशत् भरतं प्रतिस्थितिमुदीर्य शुभरते रते अविरते महते अवनि चक्रिणां प्रथमतः मतः ॥ ४ ॥
व्याख्या -अथ विभुापका देवताधिष्ठातृत्वात् चक्रास्त्रम् हरिपरिस्फूरिताम् दिशम् ऐन्द्रीदिशा पूर्वामित्यर्थः आविशत् आयात योजनमात्रं गत्वा भरतं प्रति भरतराजानं प्रति स्थितिमेव स्थानमुदीर्य यत्र चक्कस्थितस्तत्रैव सर्वसैनिकानां स्थितिर्जातेति भावः शुभरते शुभे कर्मणि कल्याणजनकाचारे रते व्यावृते रतेः रागात् अविरते रागाशक्त भरने भरतचक्रवर्तिनि विपये अवनिचक्रिणाम् पृथ्वीतलचक्र. वर्तिनाम् प्रथमतः मतः प्रथमोऽयञ्जातः सर्वचक्रवर्तिनामाद्योऽयमिति भावः ॥ ४ ॥ अभिनमय्य पुरः सुरमागधं तदनु तद्वरदाम मुदः पदम्। वरुणदिक्प्रभयासभयाऽमुनापरिगताऽरिगतासुहृता कृता
मन्वय:--पुरः सुरमागधम् अभिनमरय तदनु मुदः पदं नवरदाम अभिनमध्य अमुना प्रमया सभया वरुणदिक परिगता अरिगता सुहृता कृता ॥५॥