SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीधिजयामृतसूरिप्रणीता सरणी टीका, सर्ग-८ ३९९ ग्यशालिदुर्गतिनिवारकेण जिनेन्द्रेण दिवि आकाशे पुरःसरः अग्रेसरः यश्चक्रमहाध्वजस्तस्यानुगमनेऽनुसरणे ये नैगमास्तेषां नैपुण्येन कौशल्यतः सततसंगमतो जगे विजहे अन्य पक्षे भरतवज्ज्ञेयम् ॥ १॥ हयरयक्षुरभिन्नमहीतलाद दिवि समुद्गमनेन रजोबजः । किमिव वक्ति स शक्तिमहोदयं खरपितारपितामहसंसदि। अन्वयः- रजोव्रजः हयरयक्षुरभिन्नमहीतलात दिवि समुद्गमनेन स्वरपि तारपितामहसंसदि शक्तिमहोदयम् स किम् वक्तीव ॥ २ ॥ व्याख्या रजोत्रजः धूली समूहः हयरयक्षुरभिन्नमहीतलात् हयानां अश्वानां योरयः वेगो द्रुतगतिरित्यर्थः स हयस्यः क्षुरेण शफेन भिन्न: क्षुण्णः कुट्टित उत्खात इति यावत् इति क्षुरभिन्नः हयरयेण क्षुरभिन्नः यो महीतलम् भूतलम् ल हयरयक्षुरभिन्नमहीतलम् तस्माद दिवि समु. द्गमनेन दिवि आकाशे समुद्गमनेन संलग्नेन हेतुना स्वरपि स्वर्गेऽपि तारपितामहसंसदि ताग अत्युनता या पितामहस्य ब्रह्मणः संसद् सभा तत्र स रजोत्रजः शक्तिमहोदयम् शक्तेः चक्रास्त्रस्य महोदयमाविर्भावम् अथ च शक्तेः भरतचक्रवर्तिनः प्रभुत्वस्य महोदयम् प्रभूताधिपत्यम् किम् किमु वक्तीव कथयतीव ब्रह्मसंसदि तत्सामर्थ्य सूचयतीति क्रियोस्प्रेक्षातिशयोक्तिमूला सर्वसाधारणमेतत् ॥ २ ॥ पुरत एवं दिगम्बरसंवराद विहितसन्निहितारुणमण्डलः। किमु विभोरवदत् स सुसौरभावयदशां यदसान्ध्यरजोभरः भन्वयः-पुरत्त एव दिगम्बरसंवरात् विहितसन्निहितारुणमण्डल: असा. ध्यरजोभरः स विभोः सुसौरभावयदशा किमु अवदत् ॥ ३ ॥ ___व्याख्या-पुरतः प्रथमतः दिगम्बरसंचरात् दिग्शून्यमेव अम्बरं वसनं यस्य तद्दिगम्बरं नमः तस्य संवरादाच्छादकत्वात् आवरकत्वादित्यर्थः विहितसन्निहितारुणमण्डलः विहितः कृतः सन्निहितः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy