________________
३९८
महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धानमहाकाव्ये
॥ अथ अष्टमः सर्गः ॥
अथ जगत्त्रयभावनिवेदिना भविभयङ्करभावविभेदिना । दिवि पुरस्सर चक्र महाध्वजानुगमनैगमनैपुणतो जगे ॥१॥
अन्वयः --- अथ जगत्रय मात्र निवेदिना भविभयङ्करभावविभेदिना दिवि पुरस्लरचक्रमहाध्वजानुगमनैगमनैपुणतो जगे ॥ १ ॥
व्याख्या--अथ अथानन्तरम् जगत्रयभावनिवेदिना जगतां त्रयम् जगत्रयम् जगत्रयाणां भावः अभिप्रायः जगत्रयभावः तन्निवेदितुं ज्ञातुं शीलमस्येति जगत्रय भावनिवेदी तेन तथोक्तेन भविभयङ्करभावविभेदिना भविनाम् भाग्यवताम् यो भयङ्करभावः दुःखजनकदुरदृष्टः तं बिभेत्तुं पृथकर्तुं शीलमस्येति भविभयङ्करभावविभेदी तेन तथोक्तेन दिवि पुरस्सरचक्रमहाध्वजानुगमनैगमनैपुणतो दिवि आकाशे पुरस्सरः अग्रेसरः यः चक्रः देवप्रभावावनतास्त्रविशेषः महाध्वजश्चेति तयोर्द्वन्द्वः पुरस्सरौ च तौ चक्रमहाध्वजाविति पुरस्सरच क्रमहाध्वजौ तयोः अनुगमनेऽनुसरणे यो नैगमः नितिः विवेकःस्तस्मिन् यो नैपुणः दाक्ष्यम् स पुरःसरचक्र महाध्वजानुगमने गमनैपुणः तस्मात् नैपुणतः दाक्ष्यात् जगे जग्मे यद्वा सार्वविभक्तिकस्तसिल् इत्य नुगमनैगमनैपुणेनेति तथोक्तः तृतीयान्तविशेषणम् । अत्र सर्गे भरतचक्रवर्त्तिनो दिग्विजयवर्णनम् । द्रुतविलम्बितञ्चवृत्तम् दुतविलम्बितमाह नभौ भरौ इति तल्लक्षणात् ॥
अन्यपक्षे - अथ अथानन्तरम् जगत्रयस्य त्रिजगतो यो भावः पदार्थ : जीवाजीवादिरूपः तन्निवेदयति बोधयतीति तच्छीलः तेन भविभयंकर भावविभेदिना भविनां सद्भाग्यवतां यो भयंकर भावः दुर्गतिजनकाचारः तं विभेदयति निराकरोतीति तच्छीलस्तेन सद्भा