SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग- १९७ ध्वस्तं दुर्जनकल्किदुष्कृतमिह प्रादुष्कृतं सत्कृतं, संलग्ने सकले कलेरपि बले सोऽयं प्रभावो विभोः ४२ ॥ इतिश्री सप्तसंघाने महाकाव्ये महोपाध्यायश्रीमेघविजयगणिकृते भगवतकेवलज्ञानसाम्राज्य विहारनामा सप्तमः सर्गः ॥ ७ ॥ __ अन्वय:-एवं देवनृदेवसेवितपदश्रीमद्विभोः केवले सिन्ढे नयो दयमयः राज्यविधि: निर्भयः प्रासीसरत् इह दुर्जनकलिकदुकृतं ध्वस्तम् सत्कृतम् प्रादुकृतम् कलेः सकले अपि बले संलग्ने सति सोऽयं विभोः प्रभावः ॥ ४२ ॥ व्याख्या एवं पूर्वोक्तप्रकारेण देवनदेवसेवितपदश्रीमद्विभोः देवा अमराः नृदेवाः नराधिपाश्रतैः सेवित आरधितः पदश्चरणो यस्य स देवनदेवसेवितपदः स चासो श्रीमद्विभुश्चेति तस्य तथोक्तस्य देवा. देवसे वितचरणस्य जिनेन्द्रस्य केवले केवलज्ञाने सिद्धे प्राप्ते सति इह भूमौ दुर्जनकल्किदुष्कृतम् कल्कम् पापमस्यास्तीति कल्की दुर्जनश्चासौ कल्की चेति दुर्जनकल्की तस्य दुष्कृतम् पापम् वस्तम् निरस्तम् कले। कलहस्य सकले अपि समस्ते अपि बले सामर्थ्य संलग्ने समागते सत्यपि “युद्धं तु संख्यं कलिरिति हैमः" सत्कृतम् शोभनकृत्यम् सुकृतमित्यर्थः प्रादुम्कृतम् प्रादुर्भूतम् नो दयभयः नयस्य नीते उदयः प्रादुर्भावस्तन्मयः तत्प्रचुरः "प्राचुर्ये मयटी राज्यविधिः शासनविधिः निर्मयः विगतभीः प्रासीसरत् प्रावर्तत सोऽयं विभोः जिनेश्वरस्य प्रभावः ।। शार्दूलविक्रीडित छन्दः । अन्यपक्षेपि साधारणम् ॥ ४२ ।। इति शास्त्रविशारदकविरत्नभट्टारकाचार्यश्रीविजयामृतसूरीश्वरप्रणीतायां सप्तसंधानमहाकाव्य सरणीटीकायां सप्तमः सर्गः ॥ ७ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy