________________
३९६
महोपाध्याय श्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाग्थे
तिमिरनिराकरणनिपुण इत्यर्थः तत एव अपतापे अपगतः निराकृतःतापः सांसारिकत्रिविधतापो येन तस्मिन् सति देवमुनिभिः आत्मत त्वप्रकाशभासमानमुनिभिः यद्वा देवमान्यमुनिभिः किंवा देवाश्च मुनयश्च तैर्देवमुनिभिः शुद्धाम्बु निरवद्यजलं प्राकृतमित्यर्थः न पीतं तदानी तापविरहात् प्राकृतनिवद्यजलाभिलाषिणो न जाता इत्यर्थः किन्तु अमृतं तदीयोपदेशवचनामृतं पीनं श्रुतमित्यर्थः किश्च तस्मादेव कुमारः अभयकुमारः सद्भावभावितमना सद्भावेन चारित्रजिघृक्षयाभावितं वासितं मनोऽन्तःकरणं यस्य स सद्भावभावितमना भविता भविष्यति तदेव कुमारसंयमग्रहणमेव चिल्लणातनुजभूपति साधनानि चिहणायाः तनुजस्य तनयस्य कोणिकस्येति यावत् भूपति साधनानि नृपत्वप्रयोजकानि भविष्यन्तीति शेषः ॥
अन्यतीर्थकर पक्षे-शालिकोक्तिरग विशालायां अयोध्यायां भवः वैशालिका यद्वा विशेषेण शालते शोभते महापुरुषजन्मपावितत्वात् विशाला तत्र भवः वैशालिकः तस्य उक्तिः तस्याः रणं श्रवणं उपदेशनम् तदेव अंशुकरः उद्योतकारका अज्ञाननिरसनः अत एवं अपतापे तापरहिते सति देवमुनिभिः पूर्ववर्णितप्रकारमेवाबसेयम् तचिलणेति तत्-तदुपदेशश्रवणमेव चित्ज्ञानं रणति प्राप्नोति इति चिल्लणः "रलयोरक्यात्" तस्य ज्ञानवतः अतनुजभुवः अयोनिजायाः मुक्तेः पतिमाधनानि स्वामित्वकारणानि कैवल्यप्रापकाणीत्यर्थः तथा च कुमारः को भुवि मार इव अप्रतिहतप्रभावः भव्यजीव इत्यर्थः सद्भावभावितमना भविता “भूते श्वस्तनी" आदिनाथरामपक्षे कुमारो भरतः ॥
कृष्णपक्षे-कुमारः प्रद्युम्नः शाम्बश्च देवमुनिः नारद इति ॥४१॥ एवं देवनृदेवसेवितपदश्रीमद्विभोः केवले,
सिद्ध राज्यविधिर्नयो दयमयः प्रासीसरनिर्भयः।
भवि मार
स्तनी" आ
वमुनिः नार