SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३९५ आचार्य श्रीविजयातसूरिप्रणीता सरगी टीका, सर्ग: ७ चुलं समुच्छ्रायं नयतीति उत्पादयतीति चुलनी एतेषान्द्वन्द्वः इति आनन्दशंखचुलन्यः तैः सहितः प्रिय इति सानन्दशंख चुलनीप्रियः तेषां दीर्घवृत्या चिरानुवृत्या अनन्तकालस्थित्या अनन्तकालपर्यन्तमानन्दकल्याणसमुच्छ्रायं जनकम् इत्यर्थः गोशालिभद्र चरितस्फुरितम् गवा वाण्या शालते शोभते इति गोशालि भद्राणां पुण्यशालिनाम् चरितेन आख्यानेन स्फुरितम् विलसितम् जगाद उवाच ।। रामकृष्णपक्षे - सानन्दधी ऋषभवृतशमप्रवृत्तिम् सानन्दधियः ये ऋषभाः श्रेष्ठाः तेषां वृत्ते व्यवहारे शमप्रवृत्तिम् शान्तिसंपादकम् अनन्तकायम् अनन्ता अनेकशः कायाः संघा यत्र तम् आलिवदनम् रोचकवचनम् असज्जम् अस्फीतम् नो नैव किन्तु स्फीतम् विशदम् आनन्दयतीति आनन्दः लक्ष्मणः बलदेवश्व अथवा आसमन्तानन्दयतीति आनन्दः नन्दकनामातयोः खङ्गः " कौमोदकी गदा खड्गो नन्दकः कौस्तुभमणिरित्यमरः " शंखः पांचजन्यनामा चुलनी चुलमैश्वर्यमयतीति चुनी कौमोदकीगदा तेषां प्रिया मनोज्ञा दीर्घवृत्तिः अत्यन्तसंबन्धः तथा गोशालिभद्र चरितस्फुरितम् यथास्यात्तथा जगाद कथयामास ।। ४० ॥ सद्भावभावितमना भविता कुमारस्तच्चिलणातनुजभूपति साधनानि । वैशालिकोक्तिरणमंशुकरोपतापे, शुद्धाम्बुदेवमुनिभिर्ह्यमृतं न पीतम् ॥ ४१ ॥ अन्वयः -- कुमारः सद्भावभावितमना भविता तत् चिल्लणातमुजभूपतिसाधनानि वैशालिकोक्तिरणं अंशुकरः अपतापे देवमुनिभिः शुद्धाम्बु न पीतम् अमृतं हि (पीतम् ) ॥ ४१ ॥ व्याख्या - महावीरपक्षे वैशालिकस्य वर्धमानस्वामिनो या उक्तिः उपदेशना तस्या रणं श्रवणं तदेव अंशुकरः प्रभाकरः अज्ञान -AR
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy