SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी रीका. सर्ग- ४ ४०१ व्याख्या-पुरः पूर्वम् सुरमागधं सुरत्वाभिमानिनम्मगधतीर्थशम् अभिनमय्य अभिनामयित्वा तनम्रीभूतं विधायेत्यर्थः तदनु तत्पश्चात् मुदः पदम् हर्षकारकम् अथ च मुदः प्रमदस्य प्रकर्षगवस्य पदम् स्थानम् अत्यंतगर्विष्ठम् तत् प्रसिद्धम् वरदाम वरदामाधिपतिम् अभिनमय नामयित्वा स्वाधीनं विधाय प्रभया कांत्या प्रतापेन सभया भयगुक्ता वरुणदिक् प्रतीचीदिक् परिगता गमनविषयीकृता तत्रेति शेषः अरिगता शत्रुभूता विपक्षायिता सुहृदा कृता ये शत्रवस्तेऽपि मित्राग्यासन्निति भावः ।। अन्यपक्षे मुष्ठु राजते इति सुरः स चासो मागधः मगधानामीशीता इति सुरमागधः जरासंधस्तम् अभिनमय्य पराजित्य तदनु तत्पश्चात् तद्वरदाम तेन जरासंधेन वरन्दाम बन्धनं यस्य तत् तद्वरदाम जरासंधनियमितराजसमुदायम् मुदः पदम् सहर्षम् विधायेति शेषः अन्यत् पूर्ववत् ॥ ५ ॥ रामपक्षे पुरः अग्रे प्रथमं सुरमागधं सुरैर्देवैः सहस्त्रयक्षश्च मगयति परिवेष्टयते इति सुरमगधः स एव सुरमागधस्तं सहस्रयक्षा. धिष्ठितं वज्रावर्णवावर्तनामकन्धनः अभिनमय नमयित्वा तदनु धनुर्नमनानन्तरं मुदः पदम् हर्षकारकं तद्वरदाम सीतावरणस्वजम् अभिनमय्य स्वकण्ठापितं विधाय्य वरुणदिक् प्रभया सभया अरिंगता शत्रुभूता अमुना रामेण सुहृदा मित्रभूता ॥ ५ ॥ सवरणं वरणं सरितस्तटे, हरिरधाद् धरणेः खबलस्थितौ । सवलयः खलु सिन्धुमतीतरत्, खमहसा महसारमहानृपैः ॥ ६ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy