________________
३८६ महोपाध्यायश्री मेघविजयगणिविरचिते सासन्धानमहाकाव्ये
अन्वयः-पक्षः पुर: सुरसमागप्ररागदक्ष: साक्षाशाननरुचिज्वलनेन मोदः सीतांतरप्रणयिता नृपति प्रयोगः नृपलक्ष्मणसम्चियोगः संजात एव ॥ ३२ ॥
व्याख्या-पक्षः कृष्णशुक्लरूपः पक्षः बलम् सैन्यम्बा पक्षः खगः पक्षी वा पक्षः राजकुञ्जरो वा पुरा सुरसमागमरागदक्षः पुरः अग्रे मुष्ठु रातीति सुरः मार्गमासः “ तत्र धान्यसंचयप्राचुर्यात् " तस्य समागमः संयोगः तस्य रागः अनुरागः तत्र दक्षः पटुः अथवा पुरः अग्रे सुरा एषामस्तीति सुराः 'अर्शादित्वादच्" सुराणां मद्यपायिनाम् समागमस्थ यो रागः प्रेमा तत्र दक्षः समुत्सुकः अन्यत्र सुष्टु रसो यस्य स सुरसः शोभनजलम् तत् माति यत्र स सुरसमः तत्र आगमनम् आगतिः तत्र दक्षा पटुः हंसादीनाम्मानसादागमनं तत्र प्रसिद्धम् कुञ्जरपक्षे सुराणां नृपानां विजयोत्सुकानां समागमे यो रागोऽभिनिवेश स्तत्र दक्षः साक्षादशाननरुचिः दशमु दिक्षु आननं प्रकाशो यस म दशाननः सूर्यः तत्र रुचिः प्रीतिर्यत्र स च ज्वलनो पहिः ताभ्यां मोद: प्रमोदः सीतान्तरस्य अन्य शोभा सम्पत्तेः मदिरान्तरस्य वा प्रणयिता प्रीतिः नृपतिप्रयोगः सूर्यस्य राश्यन्तरगमनम् भूपतिगमनं वा उत्तरदिशिगमनं वा खगानाम् नृपलक्ष्मण सन्नियोगः नृपश्चासौ लक्ष्मणश्चेति नृपलक्ष्मणः सारसः तस्य सन्नियोगः इतस्ततोगमनम् संजात एव प्रववृते ____ अन्यत्र-पक्षः सहायः पार्यो वा 'पाचे गृहे विरोधे बले सहाये सख्यौ पक्ष इति शब्द० म०” पुरा अग्रे सुरंसमागमरागदक्षः सुराणान्देवानां समागमेन सानिध्येन यो रागः अनुरागः प्रेम तत्र दक्षः पटुः साक्षात् सद्यः दशाननरूचिज्वलनेन मोदः दशाननस्य रावणस्य या रुचिः कांतिस्तस्या ज्वलनेन दाहेन रावणविनाशनेन मोदः हर्षः यद्वा साक्षात् प्रत्यहं दशसु दिक्षु आननं मुखं यस्य स दशाननस्तेन रुचिर्दीप्तिर्यस्य स दशाननरुचिः स चासो ज्वलनश्चेति दशाननरुचिज्वलनः सर्वतः प्रज्वल निस्तेन सीताशुद्धयर्थज्वलनेन मोदः हर्षः