________________
भाचार्यश्रीविनयामृतरिप्रणीता सरणी टीका, सर्ग-७ ३८७ सीतान्तरप्रणयिता सीतायां जानक्यां आन्तरप्रणयिता आभ्यन्तरि. कप्रेम अथवा सीतान्तरे अग्निशुद्धसीतायां प्रणयिता प्रेमबुद्धिः नृपतियोगः नृपतेः रावणस्थाने विभीषणस्य प्रयोगः स्थापनम् नृपलक्ष्मणसन्नियोगः नृपश्चासौ लक्ष्मणश्चेति तस्य सनियोगः विधानम् संजात एव समुत्पन्न इत्यर्थः ॥ ३२ ॥ मार्गप्रवृत्तिरुचिता निचितात्मलक्ष्मी
निर्माणनमणि जनो रमते मतेन । निश्छद्मपद्मनयनानयनानि गेहे,
स्नेहेन मित्रवसनाद्यशनासनानि ॥३३॥
अन्वयः---मार्गप्रवृत्तिरुचिता आत्मलक्ष्मीनिचिता जनः मतेन निर्माण. नर्मणि रमते गेहे निश्छद्मपझनयनानय नानि स्ने हेन मिन्नवसनाद्यशनासनानि ॥३३॥
__ व्याख्या-मार्गप्रवृतिरुचिता मार्गस्य मार्गशीर्षमासस्य प्रवृति: प्रवर्तनम् उचिता प्राप्तकाला अथवा मार्गस्य अधनः प्रवृतिः प्रवर्तनम् उचिता शोभना निराबाधा आत्मलक्ष्मीः आत्मनः स्वस्य लक्ष्मीः संपत् निचिता संपादिता जनः लोकः निर्माणस्य कामस्य नर्मणि केलौ कामकेली मतेन स्वेच्छातः रमते विहरति गेहे सअनि निश्छद्मपझनयनानयनानि निच्छद्मम् निष्कपटम् यत् पद्मं न कमलम् तद्वन्नयनन्नेत्रम् यासाम् ताः निच्छेमपनयनाः निस्सन्द्रकमललोचनाः तासाम् आनयनम् आगमनम् इति निश्छा पननयनानयनानि स्नेहेन प्रेम्णा गेहे . गृहे मित्रवसनाधशनासनानि मित्रस्य सुहृदः वसनमाच्छादनम् तदादियसिन् तत् मित्रवसनादि अशनम् भोजनम् आसनमुपवेसनम् तानि तथोक्तानि अथ च मित्रस्य सूर्यस्थ वसनादि प्रवेशनादि अशनम् भोग्यम् सूर्यातय सेवनम् आसनम् पूजनम् तानि तथोक्तानि भवन्तीति सर्वत्रान्वयः ।। ३३ ॥ यमकम् ।