________________
१८५
भाचार्यनीविजयातरिप्रणीता सरणी टीका. सर्ग-. पद्मोदयः सरसि निर्मलता प्रयुक्ता
संपत्त्रकम्पनतिर्मधुराध्वराजाम् । नैपुण्यपुण्यचरिताद् दुरितान्निवृत्तिः,
किं किं शरन्न तनुते म्म सुखं जनेऽस्मिन् ? ॥३१॥
__ भन्वयः--सरसि पद्मोदयः निर्मलता प्रयुक्ता अध्वराजाम् सम्पत्रकम्पन. . गतिमधुरा नैपुण्य पुण्यचरितात् दुरितान्निवृत्तिः अस्मिन् जने शरद् किं किं सुखं न तनुतेस्म ॥ ३ ॥
व्याख्या-सरसि सरोवरे पद्मोदयः पद्यानां कमलानामुदयः उद्भवः तथा सरसि निर्मलता निष्पकता स्वच्छतेत्यर्थः प्रयुक्ता योजिता अध्वराजाम् अध्वनि मार्गे राजन्ते शोमन्ते इति अध्वराजस्तेषाम् मागेवृक्षाणां सम्पत्रकम्पनगतिः संपत्राणां सम्यक् यथास्यात्तथा दलानां कम्पनगतिश्चांचल्यं मधुरा मनोहारिणी यद्वा अध्वनि मागें राजन्ते स्वचंक्रमणेन शोभन्ते इति अध्वराजः पथिकास्तेषां सम्पत्राणां सम्यक् वाहनानां कम्पनगतिः सविलासगमनं मधुरा मनोज्ञा निरापाधा "सर्व स्याद्वाहनं यानं युग्यं पत्रं च धोरणमित्यमरः" नैपुण्यपुण्य चरितात् नैपुण्येण कौशल्येन पुण्यचरितात् पवित्राचरणतः दुरितात् दुष्कृतात् निवृत्तिनिरोधः, यथारुचिवारिदवर्षणजनितस्वास्थ्येन सर्वे जनाः शरदि धर्मकर्मणि विशेषेण रता भवतीति भावः । इति असिन् जने लोके शरद् शरदृतुः किं किं मुखम् किं किं सौख्यम् न तनुतेस्म न विदधातिस्म सर्व सौख्यं जनयति स्मेति भावः ॥३१॥ पक्षः पुरः सुरसमागमरागदक्षः,
साक्षादशाननरुचिज्वलनेन मोदः । सीतान्तरप्रणयिता नृपतिप्रयोगः,
संजात एव नृपलक्ष्मणसन्नियोगः ॥ ३२ ॥