________________
१८४
महोपाध्यायधीमेघविजयगणिविरचिते सक्षसम्धानमहाकाचे
अवलम्बितकम्बलः कृषीवलः कर्षका ऋषिरिव मुनिरिव परक्षेत्रम् परं च तवक्षेत्रश्चेति सिद्धस्थानम् यद्वा परङ्केवलम् क्षेत्रम् शस्यक्षेत्रम् भीत्या पशवः शस्यभक्षणेन क्षेत्र विकलं मा कुयुरिति भयेन सेवे सेवितवान् पलाशजम् बलम् पलम् मांसम् तृणम् अश्नातीति पलाश: अग्निः तस्माजायते इति तत् बलम् चपलसबलम् चपलानां दृष्टिज. नितशीतार्तानां सबलम् सावधानम् जज्ञे उत्पेदे ॥ २९ ॥
उपमालंकारः॥ प्राप्ताश्विनेयसुभगक्रियया जनाये,
गर्जन्महासुरघटा गतिरञ्जना सा। यस्या नु बृंहितरवप्रियमादधाति,
तस्याः सतः प्रतिपदं शिवसंपदेति ॥ ३०॥ अन्वयः --प्राप्त्या आश्विनेयसुभगक्रियया गर्जन्महासुरघटा गतिः सा अञ्जना यस्यानुबंहितरवः प्रियमादधाति तस्याः सतः प्रतिपदम् शिवसंपद् एति ॥३०॥
व्याख्या-जनाने लोकाग्रे आश्विनेययोः अश्विनीकुमारयोः स्ववैद्ययोः अथवा आश्विने भवः आश्विनेयः शरहतुः तस्य शुभगक्रियया सौभाग्येन प्राप्त्या लाभेन गर्जन्महासुरघटा महाश्चासौ मुरश्चेति महासुरः महासुराणां घटा महासुरघटा गजेन्ती चासो महासुरघटा इति गजेन्महासुरघटा यत्र सा तथोक्का अञ्जना गजमहिषी गतिः प्राप्त्या "शरहतौ तासां सौभाग्यं जायते इति समया" यस्या अञ्ज. नाया नु इति वितर्के बृंहितरवः गर्जितशब्दः प्रियम् अनुकूलम् आदधाति अनुकूलतां जनयति तस्या. प्रतिपदम् प्रतिक्रमम् सतः सजन स्य सौभाग्यवतः शिवसंपदम् कल्याणमेति प्राप्नोति ॥ ३०॥
इतः श्लोकत्रयपर्यन्तम्बसन्ततिलकं वृत्तम् ज्ञेयं वसन्ततिलकं तभजा जगोग इति तल्लक्षणात् ॥