________________
आचार्य श्री विजयातसूरिप्रणीता सरणी टीका. सर्ग - ७
व्याख्या नमसि श्रावणे वेणीश्रेणी वेण्या जलधारायाः श्रेणी पंक्तिः रसोदग्रम् रमस्य जलस्य उदग्रम् औन्नत्यम् रमसा रामस्येन आश्रयत् अध्यगच्छत् घनरवाः घना निबिडा ये रवाः शब्दाः यद्वा घनानाम् ये रवाः शब्दाः मेघशब्दाः दिवा समम् नभसा समम् यदि वा अथवा दिवा दिवसे भुवि क्षितौ प्रीतिम अनुरागम् चक्रुः दधुः लवगशिविरं हर्षोत्कर्षः प्लवगानां मेकानां मयूरानां वानराणां वा शिविरे संघे हर्षोत्कर्षः प्रमोदप्रचुरः रक्षसि रात्रौ वक्षसि हृदयेन अत एव सभयमनसा भययुक्तचित्तेन तदा तस्मिन् समये कायाःकम् जलमेव का तस्याः ततः गृहात् गेहात् अलम् ना निरगुर्नैव निरगच्छन् ।
अत्र प्लवगशिविरे कापेयसेनासन्निवेशे हर्षोत्कर्षो जातो रक्षसि वक्षसि राक्षसीय सेनामनसि अत एव सभयमनसा भयभीतचित्तेन लंकाया गृहात् न निरगुर्न निष्क्रान्ता इत्यर्थान्तरोऽपि स्फुरतीति ॥ २८ ॥ श्लेषः । हरिणीवृत्तम् | रजनिवहुधान्योच्चै रक्षाविधौ घृतकम्बलः,
सपदि दुधुवे वारांभाराद् गवा गलकम्बलः । ऋषिरिव परक्षेत्रं सेवे कृषीबलपुङ्गव
चपलसबलं भीत्या जज्ञे वलं च पलाशजम् ॥ २९ ॥
૨૨
....
अन्वयः - सरदि वारांभारात् गवा गलकम्बलः दुधुवे रजनि बहुधान्योः रक्षाविधौ घृतकम्बलः कृषीबलपुंगवः ऋषिरिव परक्षेत्रं सेवे पलाशजं बलम् भीत्या चपलसवलम् जज्ञे ॥ २९ ॥
व्याख्या - सपदि लघु वारां वारीणां भारात् जलबाहुल्यात् "आपखीभूति वारिसलिलमिति अमरः " गवा गलकम्बलः सास्ना दुधुवे धूयते स्म रजनि बहुधान्योच्चैरक्षाविधौ घृतकम्बलः रजनि रजन्यां रात्रौ वहु अति धान्यानां शस्यानां रक्षाविधौ पालनविधौ घृतकम्बलः