SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३८२ महोपाध्यायश्रीमेघविजयगणिविरचिते सससम्धानमहाकाव्ये व्याख्या-वर्षा प्रावृद् अधिकामितफलाधिगमेन अधिकामि. तम् अभिलषितम् यत् फलम् उद्देश्यम् तस्य अधिगमेन प्राप्ता शल्यं दुःखम् अवृष्टिजनित दुःखम् खेदमित्यर्थः भित्वा विनाश्य विभुवने समस्ते भुवने जगति जयश्रीः सर्वोत्कर्षता अभजत् प्राप्नोत् तथा च नित्यानुकूलपवनांगजसंप्रयोगम् नित्यमहर्निशम् अनुकूलः अनुगतः यः पवनः वायुः तस्य अङ्गजसंप्रयोगम् वेगानुकौल्यम् अधिगम्येति शेषः तत एव वर्षात एव सविजयः विजयसहितः धर्मात्मजः जीवः राजते इति राजा विराजमान: भवतीति शेषः जलवृष्टित एव सर्वे राजन्ते इति भावः ।। ____ अन्यत्र । वर्षे भारतवर्षे अधिकामितस्य अभिलषितस्य फलस्य अधिगमेन लाभेन शल्यम् शल्यनामानम् नृपम् भित्वा विनाश्य विभुवने समस्ते भुवने जगति जयश्रीः विजयलक्ष्मीः अभजत् आप्नोत् नित्यम् अहर्निशम् अनुकूल: अनुगतः यः पवनांगजः भीमसेनः तस्य संप्रयोगम् युद्धोद्योगम् अधिगम्येति शेषः सविजयः अर्जुनसहिता धर्मात्मजः युधिष्ठिरः तत एव तस्मादेव शल्यविजयात् भीमपराकमाञ्च राजा सार्वभौमः भीमसेनेन दुर्योधनविनाशाधुधिष्ठिरः राजपद. भागिति भावः ॥ २७ ।। श्लेषः । नभसि रभसा वेणीश्रेणी रसोदग्रमाश्रयद्, भुवि धनरवाश्चक्रुः प्रीति समं यदि वा दिवा । प्लवगशिविरे हर्षोत्कर्षों न रक्षसि वक्षसि, सभयमनसा नालङ्कायास्तदा निरगुर्गृहात् ॥२८॥ अन्वयः-नभसि वेणीश्रेणी रभसा रसोदाम् भाश्रयत् भुवि यदि वा घनरवाः दिवा समं प्रीतिम् चक्रुः प्लवगशिविरे हर्षोत्कर्षों न रक्षसि वक्षसि समयमनसा तदा संकाया गृहात् नानिरगुः ॥ २८ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy