SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-७ ३१ व्याख्या-स द्रौणिः तन्नामा कश्चिन्मेघ: शिखरेषु पर्वतोचप्रदेशेषु वाहाया नया अवार्यमरोधकम् तथा वर्षति यथा प्रस्थरोऽपि तदेगन निरुणद्धि खवीर्य स्वसामर्थ्यम् अधिगम्य अधिगत्य सन्धेः संमिलितस्य विघटयन् विश्लेषयन् कर्मणः शेषत्वविवक्षया षष्ठी निस्तन्द्रसान्द्रपरवासविनाशनाय निस्तन्द्रं निष्प्रत्यहं सान्द्रं निबिडं सघनमित्यर्थः या परवासम् परगृहम् कलत्रम्बा तस्य विनाशनाय विनाशनयोग्यम् नाम इति संभावनायाम् स्वम् स्वकीयम् नाम्नः परिणामम् यौगिकार्थ गुणति हिनस्ति कौटिल्यं करोतीति द्रोणस्स एव द्रौणिरिति स्वाभिधेयवाच्यार्थम् अवेक्ष्य विचार्य साम्यम् समताम् अधात् व्यदधत् ॥ २६ ॥ अन्यत्र द्रौणिः द्रोणाचार्यतनयोऽश्वत्थामा शिखरेषु उन्नतेष्वपि बाहानामश्वानाम् वार्यनिरोधकम् यद्वा वाहस्य भुजस्य वार्यनिरोधकम् बाहुचीयरोधकम् स्ववीर्यम् स्वसामर्थ्यम् अधिगम्य ज्ञात्वा निस्तन्द्रसान्द्रपरवासविनाशनाय निस्तन्द्रं निरुद्विग्नं सांद्रम् दृढम् यत् परवासं परसेनासनिवेशम् तस्य विनाशनाय विनाशयितुं स्वनामपरिणामम् स्वकीययौगिकार्थमवेक्ष्य दृष्ट्वा सन्धेः विघटयन् संधिविश्लेषकुर्वन् साम्यम् आधात् आचरत् ॥ २६ ॥ वर्षाधिकामितफलाविगमेन शल्यं, भित्त्वाऽभजद् विभुवने भुवने जयश्रीः । नत्यानुकूलपवनाङ्गजसंप्रयोग, धर्मात्मजः सविजयस्तत एव राजा ॥ २७ ॥ भन्वयः-वर्षाभिकामितफलाधिगमेन शल्यम् भित्वा विभुवने भुवने जमश्रीः भभजत् नित्यानुकूलपवनांगजसंप्रयोग सविजयः धर्मात्मजस्तत एव राजा ॥ १.॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy