________________
૧૮૦ महोपाध्याय श्री मेघविजयगणिविरचिते ससस धान महाकाव्ये
एव परसंगरस्य अन्ययुद्धस्य रसं परिणामम् स्मरन्भिव स्वस्थः स्वर्गस्यः समभूत् ॥ २४ ॥ उत्प्रेक्षा वसन्ततिलकं छन्दः । यो वारिवाहनिवहेषु कृपाणपाणिविद्युन्मिषाद् यदभिधापरिवृत्तिमैक्ष्य । धाराबलेन कुरुतेस्म तदङ्गभङ्ग,
धन्वगुणं पुरत एव निदर्श्य लोके ॥ २५ ॥
अन्वयः - यः वारिवाह निवहेषु कृपाणपाणिः विधुन्मिषात् अभिधापरिवृत्तिमैक्ष्य लोके पुरत एव धन्वागुणं निदर्य धाराबलेन अङ्गभङ्गं कुरुतेस्म २५ व्याख्या - यः वारिवाहनिवहेषु वारि जलं वहन्तीति वारिवाडा मेघास्तेषान्निवहेषु समूहेषु अथ च वारिम् गजबन्धनीम्वहन्तीति वारिवाहा गजास्तेषां निवहेषु संघेषु अथवा यो वा अरिवाहनिवहेषु शत्रुसैन्यसमूहेषु कृपाणपाणिः खड्गहस्तः विद्युन्मपाद्विद्युच्छलात् अभिधापरिवृत्तिम् संज्ञापरिवर्त्तनं ऐक्ष्य विधाय लोके जगति पुरतः अग्रतः धन्वागुणम् कोदण्डगुणम् धनुर्ज्याम् निदर्श्य प्रदर्श्य धाराब लेन खड्गधारावलेन अश्वगतिविशेषेण वा अथ च धाराबलेन वर्षजलधाराबलेन तदङ्गभंगं तदङ्गविच्छेदम् कुरुतेस्म विदधतिस्म ।। २५ ।। द्रौणिः स्फुटं विघटयन शिखरेषु वाहा
वायं स्ववीर्यमधिगम्य स साम्यमाधात् । निस्तन्द्र सान्द्रपरवासविनाशनाय,
स्वं नाम नामपरिणाममवेक्ष्य संधेः ॥ २६ ॥
अन्वयः -- स द्रौणिः स्फुटम् विघटयन् शिखरेषु वाहा वार्य स्ववीर्यम् अधिगम्य साम्यम् अधात् सन्धे निस्तन्द्र सान्द्र परवास विनाशनाय नाम स्वम् नामपरिणामम् अवेक्ष्य साम्यमाधात् ॥ २६ ॥