________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-.
३७९
अन्वयः-सा मानादिवसा कलाकलापैः सकलाकलापैः कलाकलापैः कलापैः सकला दिवसा व्यतीत्यमाना रसाय व्यतीत्य रसाय(अस्ति) ॥ २३ ॥
व्याख्या-सा प्रावृट् वर्षेति यावत् काचिनायिका वा मानादिवसा-प्रणयमानाद्यधीना-कलाकलापैः कला चतुःषष्टि प्रकारागीत. वाधादिरूपा तस्याः कलापः समूहः तैः कलाकलापैः, सकलाकलापैः कलया सहिता सकला कलापाः पिच्छाः येषां ते सकलाकलापाः मयूराः तैः, कलाकलापैः कला मधुरध्वनिरूपा तया सहितः कलापः काञ्चीदाम तैः उपलक्षिताभिः मधुरध्वनियुक्त-काश्चीदामभिरुपलक्षितामिः, कलायैः स्वसखीसंथैः सकला समस्ता दिवसा व्यतीत्यमाना यापयन्ती रसाय जलाय शृंगाराय च व्यतीत्य निराकृत्य मानादीनितिशेषः रसाय शंगाराय अस्तीति शेषः ॥२३॥इन्द्रवज्रावृत्तम् यमकालंकारः। स्वस्थामवारिदनृपः प्रतिमुच्य नाम्ना
ऽस्वस्थामसंगमविमर्शनतोऽग्रतोऽपि । अश्वस्थ एव समभूदु भयभूमयोगे,
स्वस्थः स्मरन्निव रसं परसङ्गरस्य ॥ २४ ॥
अन्धयः-- वारिदनृपः नाम्ना स्वस्थान प्रतिमुच्य अग्रतोऽपि अस्वस्थामसंगमविमर्शनतः अश्वस्थ एव भयभूमयोगे परसंगरस्य रसं स्मरनिव स्वस्थः समभूत् ॥ २४ ॥
व्याख्या-वारिदनृपः वारि ददातीति वारिदः स चासौ नृपः जलदनृपतिः नाम्ना नामतः स्वस्थाम स्वबलम् प्रतिमुच्य मुक्त्वा परित्यज्य अग्रतः अग्ने अवस्थामसंगमविमर्शनतः अस्वस्थानाम्माना य अमसंगमः रोगसंक्रान्तिः तस्य विमर्शनतः विवेकतः मयंजनरोगसंक्रमानुभवतः यद्वा अश्वानां यत् स्थाम वलं तस्य संगमस्य विमर्शनतः विचारतः भयभूमयोगे भयाधिक्ययोगे सति अश्वस्थ एव वाजिस्थ