________________
३.८
महोपाध्यायधीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये .
यस्यैवकीर्तिर्भवतीति भावः बहुगुणम् अनेकमौ:कं धनुः आदधत् धारयन् गर्जिवर्जः संग्रामगर्जनारहितः वृद्धत्वाद शरग्रसरमेव बाणप्र. चारम् तन्वन् विस्तारयन् “ कम्बलमागणशरा इत्यमरः" सौरस्य कर्णस्य प्रभावसमयं सेनापतित्वं सहसा अनुभाव्य विचार्य अथवा सौरस्य कर्णस्य प्रभा दीप्तिः तस्या अवममबसानम् विभाव्य विचार्य अयं द्रोण: द्रोणाचार्यः भुवि संग्रामाङ्गणे आजगाम समाययो । २१॥ श्लेषः । न दानवानां न महावहानांनदा नवानां न महावहानाम्। नदानवानां नमहावहानां नदानवानांन महावहानाम्२२
अन्वयः-यानां महावहानां नदा: दान वानी मन महाबहानान्न महावहानां दानवानान्न न दानवानां न महावहानाच ॥ २२ ॥
व्याख्या-नवानां नूतनानाम् महावहानाम् बहतीति वहा महती चासौ वहा महावहा तासाम् नवीननदीनाम् नदाः शब्दाः दानवा नाम् दैत्यानां न न नैवं अथ च महावहानाम् महती चासौ वहा सेना महावहा तासां सैन्यसमुदायानां च न, एवं च वहन्ति धारयन्तीति वहाः पर्वताः महान्तयते बहाश्चेति महाबहाः विपुलगिरयः तेषां दानवानां दानञ्छेदनं वाति करोतीति दानवः वज्रः तेषां न न नैत्र वज्राणामपि तादृशाः शब्दा न दानवानाम् दानम्मदजलं वान्ति प्राप्नुवन्तीति दानवाः गजास्तेषान्न हस्तिनामपि न महावहानां समुद्राणां च न, यथा प्राकृषि नवीननदीनां शब्दास्तथा न केषामपीति भावः ॥ २२ ॥ अत्र पद्ये 'स्यादिन्द्रवज्रा यदि तो जगौ ग' इति लक्षणादिन्द्रवज्रावृत्तम् , यमकालंकारः । कलाकलापैः सकलाकलापैः कलाकलापैः सकलाकलापैः । व्यतीत्यमाना दिवसा रसायव्यतीत्य मानादिवसा रसाय॥