SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविलवाहतपरिप्रणीता सरणी टीका. सर्ग-- . भावस्तता सा अवनिता रक्षणा विशल्या निष्कलंका ननिता विहिता यङ्का अम्भोधरेण समुद्र विजयेन विशल्या अकुलषा अवनिता अयोषिद्भता पुरुषार्थविशिष्टा पुंप्रमतिः जनिता उत्पादिता कौशल्यहारिमनसा नैपुण्यवशंवदचिनेन प्रभुगुणदर्शनात्तदधीनमनसा अमुना हरिणा इन्द्रेण अभिनीता प्रेरिता आता कृतादरा शासनदेवतेति शेषः कृता विहिता हरति पापमिति हरिः तम् नेमिनाथप्रभुम् स्नानाम्भसैव स्नात्रजलेनैव विशल्यम् गार्भक्लेदरहितम् विदधे चक्रे ॥ २० ॥ द्रोणो धनञ्जयमहाहवलब्धकीर्ति र्धन्वादधद् बहुगुणं भुवि गर्जिवर्जः । तन्वन शरप्रसरमेव तदाजगाम, सौरप्रभावसमयं सहसाऽनुभाव्य ॥ २१ ॥ अन्वयः-धनञ्जयमहाहवलब्धकीर्तिः बहुगुणम् धनुः भादधत् गर्जिवर्जः शरप्रसरमेव तन्वन् सौरप्रभावसमयं सहसानुभाध्य द्रोणस्तदाभुवि भाजगाम॥२१॥ व्याख्या-धनञ्जयमहाहवलब्धकीर्तिः धनञ्जयेन वनामिना यो महाहवः दावाग्निशान्तये रचितमहायुद्धः तेन लब्धकीर्तिः प्राप्तयशाः "वहिर्वीतहोत्रो धनञ्जय इत्यमरः" बहुगुणमने कवर्णम् धनुः इन्द्रधनुदधत् धारयन् "शरावापोधनुः स्त्रीस्यादितित्रिकाण्डशेषात्" गर्जिवर्जः वानरहितः वायुंकत्वेन मन्दगर्जः शरप्रसरम् जलवृष्टिम् तन्वन् विस्तारयन् “शरम् जले इति शब्दस्तोममहानिधिः" सौरस्य सूर्यसं. बन्धिनः प्रभावसमयं तेजःप्रसरम् अनुभाव्य विचार्य " आदित्याजायते वृष्टिकृष्टेरनन्ततः प्रजेंति स्मृतिः" तदा तस्मिन् समये सहसा झटिति द्रोणः वायुको मेघः भुवि भूसमीपमाजगाम आययो । अन्यत्र । धनञ्जयमहाहवलब्धकीर्तिः धनञ्जयस्वार्जुनस्य महाह. वेन विपुलरणेन लब्धा प्राप्ता कीर्सियन स, शिष्याणां विजयेनोपाध्या •
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy