SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३७२ महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धान महाकाव्ये नोऽयम् इति पाठान्तरम् || तेन अंगभूपशमने कर्णनृपमने सति अथ च अङ्गभूः कामः तस्य शमने शान्तौ सुमनसां देवानामिन्द्राणाम् सुतत्वात् पुत्रत्वात् सुमनसां पुष्पाणां सुतत्वादुत्पादकत्वात् अथ च सुमनसां सुष्ठुचितानाम् सुनत्वाजनकत्वात् अमुष्य अस्य वैशाख इति नाम अथवा वैखः रणसंस्थाविशेषः सोऽस्यास्तीति वैशाख इति नाम अयम् उक्तकार्यकारी फाल्गुनः न फाल्गुनमासः न अथ च फल्गु असारम् तदेव फाल्गुनः "प्रसादित्वादण्" असारो न "असारन्तु फल्गु इति द्वैमः " ॥ १६ ॥ धारां पुपोष विपरीततया न राधां, राजाङ्गजाभ्युदयितां दयिताङ्गरागात् ॥ उक्तिः प्रिया पवनशालिवनप्रियाण, कामं जनेषु विनयाजनयाम्बभूव ॥ १७ ॥ अन्वयः - दर्शितांगररागात् गजांगजाभ्युदयिताम् धाराम् पुपोष राधां न पवनशालिन प्रियाणां उक्तिः प्रिया विनयात् जनेपु कामम् जनयाम्बभूव ॥१७॥ व्याख्य- दयितःङ्गरागत् दयितः प्रेयःन् योऽङ्गरागः अंगं रज्यतेऽऽनेनेति अङ्गरागः अङ्गलेपनम् तस्मात् राजांगजाभ्युदयिताम् राज्ञः चन्द्रस्य अङ्गजम् शैत्यम् तस्याम्पुदयिताम् समृद्धिम् धाराम् जलधाराम् शैत्यातिशयकारिणीम् जलधाराश्च पुपोष सिषेवे यद्वा दयितायाः श्रेयस्याः अङ्गरागात् अङ्गस्पर्शसुखात् चन्द्रजशैत्यवतीम् धारां श्रेणीम् पुपोष मेजे विपरीततया वैपरीत्येन पुरुषायितत्वेन राधाम् रिरंसाम् न पुपोप नानुभवतिस्म ग्रीष्मबाहुल्यात् अथ च विपरीततया धारापदगताक्षर वैपरीत्योच्चारणेन राधाम् गजमदप्रसृतिम् उस्तिमदस्रावम् न पुपोष न ररक्ष तत्र गजमदप्रवृत्तेः प्रसिद्धत्वात् पचनशालिनप्रियाणाम् पचनान्दोलितारण्यपिकानाम् "बनप्रियः परभृतः कोकिलः 5 -
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy