________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-.
."
व्याख्या-राधस्य वैशाखस्य अनुनायकतयापि अनुराधकतयापि प्रसायकत्वेऽपि अनुविद्धः अश्वेताश्वनोदनकृता अश्वेताश्वो वायुः अनुविद्धश्चासौ अश्वेताश्वश्चेति अनुविद्धाश्वेताश्वः अनुगताश्वेताश्च इत्यर्थः तस्य नोदनकृता प्रेरकतया अमुना वसन्तेन विरुद्धा न कृता "य: राधायाः द्रौपद्याः आराधकः स यदि अनुविद्धाश्वेताश्वस्याऽर्जुनस्य नोदनकद भवेत तदा सुतरामेव विराधको जात इति सम्बन्धमुरीकृत्याह विरुद्धा न कृतेति भावः " तत् वासवस्य कमलाद्यनुगगम् सरोजादिप्रेम तदेव अस्मिन् वमन्ते जातम् “ अन्यथा पुत्र विराधका तथा न संभवेदित्यर्थः " बलात् बलतः स्वबलानाम् स्वसैन्यानाम् हस्तविनाशनेन " हस्तवारणम् मारणोद्यतस्य निवारणमिति शब्द म." मारणोद्यतनिवारणेन दधे वसन्तो यद्यपि फाल्गुनस्य विनाश कस्तथापि कमलविनाशकत्वेन स्वबलहस्तविनाशनेन च वासवः अमिन वसन्ते दधे इति तत्वम् ॥ १६ ॥
अन्यत्र । राधानुनायकतयापि राधस्य माधवस्य कृष्णस्य अनु. नायकतयापि अनुराधकत्वेऽपि "वैशाखे माधवो राध इत्यमरः अनुविद्धाश्वेताश्वनोदनकृता अनुविद्ध आहतो य अश्वेताश्वः कर्णस्तस्य नोदनकृतापि निराकरणकृतापि यद्वा अश्वस्य नोदनं प्रेरणं करोतीति अश्वनोदनकुन अश्वेतः कृष्णश्वासौ अश्वनोदकच्चेति अश्वेताश्वनोदनकृत अनुविद्धः योजितः अश्वेताश्वनोदनकृत् येन तेन विरुद्धा न कृता "य: आराध्यः स आराधको न भवतीति विरोधः उक्तार्थे सति विरोधप. रिहारः" तत् वासवस्य वसुसर्वसमृद्धिरस्यास्तीति वासवः कृष्णः तस्य कमलाद्यनुरागम् स कमलहस्त इति कमलापतिश्चेति कमलादेरिव असिन् अर्जुनेऽनुराग इति अन्यत् पूर्ववत् ॥ १६ ॥ तेनागभूपशमने सुमनः सुतत्वात् , वैशाखनाम तदमुष्य न फाल्गु.