________________
३.०
महोपाध्यायधीमेघविजयगणिविरचिते सप्तसन्मानमहाकाव्ये
नेन प्रचुरसुगन्धेन तत्र पुष्पातिशयात् यो मोदः हर्षः तं करोतीति आमोदमोदकरः तेन सादस्य विषादस्य "विषादोऽवसादः सादो विषण्णतेति हैम:" यत् अवशासनम् उल्लङ्घनम् तेन चित्रातिशायिनि विधौ चित्रया चित्रानक्षत्रेण अतिशयते इति चित्रातिशायिनि चित्रानक्षत्र. योगिनि विधौ चन्द्रे यद्वा चित्रं यथास्थात्तथा अतिशायिनि अधिक चमत्कारशालिनि विधौ चन्द्रे सति परमुत्कृष्टम यत् शासनम् तेन उपलक्षितः अभवत् अजायत अत्र सर्वत्र उपलक्षणे तृतीयाऽवसेया॥१५॥
अन्यत्र । अर्कसूतिः सूर्यवंशोद्भवो रामः कर्णनृपतिः सुग्रीवो वा बहुलातपश्रीः बहुलोघनीभूतो य आतपस्तस्य श्रीरिवश्रीर्यस्येति निदर्शनालंकारः, स शुकादेः शोकादेः विलयात अपगमात् रामाभियोगकलया रामायाः सीतायाः कर्णपक्षे रामस्य परशुरामस्य सुग्रीवपक्षे रामायास्ताराया अभियोगकलया संबंधसंकलनेन आमोद मोदकरसादवशासनेन आमोदेन हर्षेण यो मोदकरः सुखकरस्तस्मात् सादस्य विषादस्य अवशासनेन उल्लंघनेन चित्रातिशायिनि विधौ चित्रो विलक्षणो य अतिशयते स चित्रातिशायि तस्मिन् विधौ अदृष्टे सानु. कूले दैवे परशासनेन परस्य शत्रोः शासनेन अवसादनेन उपलक्षितः अभवत् अराजत ॥ १५ ॥ राधानुनायकतयाऽप्यमुनाऽनुविद्धा
श्वेताश्वनोदनकृता न कृता विरुद्धा। तद्वासवस्य कमलाद्यनुरागमस्मिन् ,
दधे वलात स्वबलहस्तविनाशनेन ॥ १६ ॥
अन्वयः -राधानुनायकतयाऽपि अनुबिद्धाश्वेताश्वनोदनकृता भमुना विरुदा न कृता बलात् स्त्रयलहस्तविनाशनेन तत् वासवस्य कमलाशनुरागम् भस्मिन दूधे ॥ १६ ॥