SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ भाचार्य श्री विजयातसूरिप्रणीता सरणी टीका. सर्ग-७ ३६९ भुत्रनस्य जगतः अनुरागः गुरुत्वप्रेम यस्मिन् स यद्वा भुवनस्य अनुरागो वात्सल्यं यस्य स अथवा पद्मप्रबोधविधिना आत्मज्ञानेन अभूनानुरागी संसारविरक्तः "सुरभिर्विद्वान सुरभिः स्वर्ण सुन्दरे चम्पके चैत्रेमासि पण्डिते धीरे इति शब्दस्तोममहानिधिः " उद्बभूव वित्रकास विदिद्युते इति यावत् निशाचरबलक्षयतः निशा तमः तत्र चरतीति निशाचरः अज्ञानम् तस्य बलक्षयतः अज्ञानपसरविनाशात् वियोगम् विः ज्ञानमिति शब्द० म० तस्य योगः सम्बन्धः अज्ञाननाशाद्विज्ञानयोगः तं चक्रे विदधौ शिलीमुखबहुप्रसरोपयोगात् शिलीमुखानाम् जडानाम् शिलीमुखो जडीभूत इति शब्द० म० बहुप्रसरस्य अधिकसंबन्धस्य उपयोगात् लाभात् त्रियोगम् परिभवम् भिन्दन् अपसारयन् वियोगम् शुद्धयोगम् चक्रे विदधे ॥ १४ ॥ यत्रार्कसूतिरभवद् बहुलातपश्रीरामाभियोगकलया विलयात् शुकादेः । आमोद मोदकरसादवशाशनेन, चित्रातिशायिनि विधौ परशासनेन ॥ १५ ॥ भन्वयः - बहुलातपश्रीः रामाभियोगकलया शुकादे: विलयात् आमोदमोदकरसादवशासनेन चिन्नातिशायिनि विधौ परशासनेन अर्कसूतिः यत्र अभवत् ॥ व्याख्या -यत्र बहुलातपश्रीः बहुलस्य अतिशयस्य आतप - स्य तापस्य श्रीः शोभा यस्मिन् स शुकादेः शुक्रस्य पत्रस्य विलयात् पातात् यद्वा शुकस्य कीरस्य पक्षिविशेषस्य विः आकाशे लयो लीनता तस्मात् अथवा शुकादेः शोकादेः विलयात् विनाशात् रामाभियोग कलया रामस्य मृगस्य योऽभियोगः सम्बन्धः तस्य कलया कलनेन " गन्धर्वः शरभो रामः सृमरो गवयः शश इत्यमरः " यद्वा रामाया रमण्याः अभियोगकलया सङ्गमाकलनेन आमोद मोदकर सादवश स
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy