________________
३६८
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसम्मानमहाकाव्ये
व्याख्या-तत्र ऋतुप्रसंगे सुरभृत्प्रसंगी मुरैवधियते धार्यते इति सुरभृत् कुमुमम् तस्य प्रसङ्गः सम्बन्धो यत्र स सुरभृत्प्रसङ्गी पुष्पसमृद्धिसमृद्धः, सुरभिः वसन्तः “वसन्ते पुष्पसमयः सुरभिीष्म उष्मक इत्यमरः" उद्बभूव उपाययो कथंभूतः पमप्रबोधविधिना पद्मस्य कमलस्य यः प्रबोधविधिः विकाश विधिः, तेन भुवनानुरागी भुवनस्य कृत्स्नस्य जनस्य अनुरागः प्रेम यसिन् स भुवनानुरागी, सकलजनानुरागभाजन: शिलीमुखबहुप्रसरोपयोगात् शिलीमुखानाम् भ्रमराणाम् “मयूखस्विट्करज्वालास्वलिबाणौ शिलीमुखावित्यमरः" बहुप्रसरस्य बहुसंगस्य यः प्रसरः संबन्धः तस्य उपयोगात् आयोज नात् निशाचरबलक्षयतः निशाचरस्य चन्द्रस्य बलक्षयतः दौर्बल्यात वियोगम् कमलश्रमरवियोगम् भिन्दन् च्छिन्दन निशाचराणाम् घूक पक्षिणाम् बलक्षयतः बलविनाशात् वियोगम् वीनाम् कोकिलविहगानाम् योगम् सम्बन्धम् चक्रे विदधे, पेचकानां वायसारातित्वात काकपिकयोः साम्यात् घूकवलक्षयात् कोकिलसम्बन्ध इति भावः "निशाचरबिलक्षयतो वियोगम्" इति पाठांतरे, निशाचराणाम् सर्पाणाम् "निशाचर: राक्षसे पिशाचे शृंगाले पेचके सर्प चक्रवाके चौरे इति शब्दस्तोममहानिधिः" विलक्षयतः बिलानाम् विवराणाम् क्षयतः वसन्ते पतितपणस्तद्धिलाच्छादनेन विलक्षयः सुतराम् वियोगः विवरवियोगो भवति भावः यद्वा वियोगः वीनां पक्षिणां योगः सम्बन्धः वहिः पक्षिणोऽहीनुल्लुण्ठयन्तीति प्रसिद्धिः ।।
अन्यत्र सुग्मैश्वर्यम्बिभर्तीति सुरभृत् राजा तत्र प्रसङ्गः प्रचारो यस्य सुरभृत्प्रसंगी राजजनप्रबोधकः पझे रामे आत्मज्ञाने आत्मानन्दे " आनन्दो नन्दनः पद्मो राम इत्यभिधानचिन्तामणिः " यो बोधः ज्ञानम् ईश्वरविषयकबोधः तस्य विधिविधानम् तेन भुवनानुरागी