________________
३६४
महोपाध्यायश्री मेघविजयगणिविरचिते सहसम्मानमहाकाव्ये
संबोधने पश्यत एव शीतलस्थानमन्विष्यत एव पुंसो, जनस्य तपो. वनकथा तपोवनस्य विपिनस्य कथा इष्टा गता “इष्यतेः क्तः" केपि तपोवनचर्ची न कुर्वन्ति दावाग्नित्राहुल्यात् वा अजिनसेवना मृगः चर्मसेवना वा इष्टा गता तस्स ग्रीष्मजनकत्वात् “त्वक्छ विश्छादनी. कृत्तिवाजिनमसृग्धरेति हैमः" अथ च नाया नौकायामुपविश्य आधुधिमजना समुद्र जल श्लेषणा जलाशय जलावगाहना इष्टा अभिल पिता तापबाहुल्याजनानां जलावगाहनाभिलापो जात इति भावः ।।
अन्याथें भीतस्य संसाराद्विरक्तस्य पुंसः पश्यत एव लोकसमक्षमेव दुर्योधनातकरणम् दुर्योधनस्थ कामस्य दुर्योधनस्य धार्तराष्ट्रस्थ अन्तकरणम् विनाशनम् क्षमायाः शान्तेः धरणम् अथ च दुर्योधनान्तकरणेन क्षमायाः पृथिव्याः धरणम् आश्रयणम् इष्टम् तस्य तपोवनकथा तपोवनगमनम् वा अथवा जिनसेवना-जिनेद्रभक्तिः इष्टाआशंसिता, वा अथवा नाबाधिरुह्य नौकाधिष्ठितः अम्बुधिमझना समुद्रयातो वा इष्टा अभिलषिता कर्तव्यत्वेन निर्धारितेत्यर्थः ॥११॥ दुःशासनस्य पुरशासनजन्मनैव,
संप्रापितोऽध्वनियमो विघटोत्कटत्वात् । अन्येऽभिमन्युजयिनो गुरुगौरवाहा--
स्ते कौरवा अपि कृता हतचौरवाचः ॥ १२ ॥
अन्वयः--पुरशासन जन्मनेव विघटोत्कटवात् दुःशासनस्य अध्वनियमः संप्रापितः भन्ये अभिमन्युजमिनः गुरूगौरवाहीः ते कौरवाः अपि हतचौरवाचः कृताः ॥ १२ ॥
व्याण्या-पुरशासनजन्मनैव पुरम् कुसुमदलवृत्तिम् शास्ति विघटयतीति पुरशासनो वमन्तः "पुरम् देहे गेहे कुसुमदलवृत्ती चर्मणि प्रधानग्रामे इति शब्दस्तोममहानिधिः, तस्य जन्म उदयस्तेन