________________
भाचार्यश्रीविजयामृतसूरिभणीता सरणी टीका. सर्ग-७
१६५
दुःशासनस्य दुःखेन शास्यते सह्यने इति दुःशासनम् हिमम् , तस्य विघटोत्कटत्वात् विघटे विनाशे उत्कटत्वात् उच्छृङ्खलत्वात् अध्वनः मार्गस्य नियमः गमनप्रतिबन्धः संप्रापितः समाप्तः मधुमाधवे गमनस्य प्रशस्ततरत्वात् गमननिरोधो निवारितः अन्ये अभिमन्युजयिनः अभिमन्यन्ते प्रशंस्यन्ते जनैरिति अभिमन्यवः जात्यादिकुसुमविशेषाः ते च ते जयिनश्चेति अभिमन्युजयिनः प्रशस्यतराः जातीयकुसुमानि गुरु महान् यो गौरवः गरीयस्त्वम् तदहीं तद्योग्याः को पृथिव्याम् रवाः प्रसिद्धाः ते हतचौरवाचः कृताः हताः निवृत्ताः चौरवाचः एकान्तस्मरणानि येषान्ते कृता तेषान्नामापि कैरपि न गृह्यत इति भावः न स्याजातीयवसन्ते इति साहित्यदर्पणस्मरणात् ॥ १२॥
अन्यार्थे पुरशासनजन्मनैव पुरम् शरीरम् शास्ति कार्ये प्रवर्तय. तीति पुरशासनो वायुः तस्माजन्म यस्य तेन भीमसेनेन यद्वा पुरं तन्नामकमसुरविशेष शास्ति हिनस्तीति पुरशासन: पुरन्दरः ततो जन्मयस्य तेन अर्जुनेन विघटोत्कटत्वात् वि-विपरीतम् विरुद्ध वा घटयत्याचरतीति विघटः विरुद्धाचारः द्रौपदी चीराधाकर्षकत्वादित्यर्थः तेन उत्कटः उग्रा उल्वणः विघटोत्कटस्तस्यभावस्तत्वम् तस्मात् विरुद्धोल्व. णाचारत्वात् दुःशासनस्य तदभिधानकौरवस्य अध्वनियमः अध्वनो मार्गस्य नियमः अन्तः, अतः परगन्तव्यन वर्तते इति निश्चयः महा. प्रस्थानमित्यर्थः संप्रापितः उपलम्भितः तथा अन्ये ततो भिन्नाः अभिमन्युजयिनः अभिमन्युपराजयकारकाः गुरुगौरवाः गुरवो द्रोणाचार्यप्रभृतयः गौरवार्हाः रववंशोद्भवत्वेन गुरुत्वमाता भीष्मादयः ते च ते गुरुगौरवाहाँ ते प्रसिद्धाः कौरवाश्च हतश्चौरवाचः हताः विनष्टाः चौराः चोरिताः वाचः येषां ते कृता विनष्टमुष्टवचनाः कृताः तेऽपि मृता अप्रशंसाहश्चि जाता इति भावः ॥ १२ ॥ श्लेषः ।