________________
लाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-
७
३६१
त्येनेति चलो वायुः सदागतित्वाव तस्य चक्ररूपे घूर्णनरूपे व्यूहे समूहे चक्रवाते वात्यायामित्यर्थः तनयोद्धरणप्रसिद्धेः तन्यते विस्तार्यते इति तनयो रजः धूली तस्योद्धरणं निराकरणम् तत्र प्रसिद्धिः ख्याति यस्य तसात् तदनन्तरम् परिपन्थिभित्त्यै परिपन्थिनाम् व्याघातकानां शीतानाम् भित्त्य विनाशनाय माधवस्य वैशाखस्य तज्ज्योतिषामुदयतः तत् कान्तीनाम् प्रादुर्भावतः सुदर्शनम् सुन्दराबलोकनम् चक्रम् समूहम् कान्तिसमूहम् अजायत उद्भवत ॥ श्लेषः ।
अन्यत्र प्रतिहरेः प्रतिवासुदेवस्य जरासंधस्य चलचक्ररूपन्यहे चक्रव्यूहरूपयुद्ध संस्थान विशेषे मधोः मयस्य दीप्त्या आतिशय्येन धरासुतनयस्य जरासंधस्य उद्धरणम् उच्छेदनम् तस्य प्रसिद्धः ख्याते: ज्योतिषाम् तेजसाम् उदयतः प्रादुर्भावात् परिपन्थिभित्यै शत्रुभेदनाय माधवस्य कृष्णस्य सुदशनम् मुदर्शननामकं चक्रम् चक्रास्त्रम् अजायत अभवत् उपपद्यत इति यावत् ।। १० ॥ दुर्योधनान्तकरणं धरणं क्षमाया,
भीतस्य तस्य ननु पश्यत एव पुंसः । इष्टा तपोवनकथा जिनसेवना वा,
नावाधिरुह्य यदिवाम्बुधिमजना वा ॥ ११ ॥
अन्वयः---दुर्योधनान्तकरणम क्षमायाः धरणम् भीतस्य तस्य पुंसः पश्यत एव तपोवनकथा वा जिनसेवना नावाधिरुख अम्बुधिमज्जना वा इष्टा ॥ १ ॥
व्याख्या-दुर्योधनान्तकरणम् दुःखेन युध्यते सह्यते इति दुर्योधनः शीतम् हिममित्यर्थः तस्य अन्तकरणम् विनाशकारकम् क्षमायाः पृथिव्या आश्रयणम् ग्रीष्मबाहुल्यात् भूमिशय्याश्रयणम् कस्येत्याकांक्षायामाह भीतस्येति भीतस्य ग्रीष्मतापपरिप्तस्य, नन्विति