SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री विजयाभृतसूरिप्रणीता सरणी टोका, सर्ग-६ ३५१ केवलं ज्ञानमभवत्, हिमरुचा चन्द्रेण अहीने युक्ते अर्यम्णा आसेविते इति अर्यमासेविते सूर्यचन्द्रोभयसम्मिते तिथाविति शेषः अमावास्या - तिथौ आश्विन कृष्णामावास्यायाम् नेमेः केवलज्ञानम् अभवत् प्राक्कल्याणकवासरे प्राथमिक कल्याणकदिने च्यवन कल्याणदिने चैत्रकृ ष्णञ्चतुर्थ्याम् पार्श्वनाथस्य केवलज्ञानमभवत्, अन्तिमविभौ चरमतीकरे श्री वर्धमाने जिने दिक्समिते दशम्याम् तिथौ माधवे वैशाखे राज्ये केवलज्ञानरूपे साम्राज्ये सा नियतिः स्थितिः निगदिता कथिता, विषा कान्त्याऽभिरामे मनोहरे रामे बलरामे रामलक्ष्मणे च राज्ये सा नियतिः स्थितिर्निगदिता निरूपिता ।। अत्र पद्ये शार्दूलविक्रीडितं छन्दः 'सूर्याश्वैर्मसजस्तताः स गुरवः शार्दूलविक्रीडितम्' इति लक्षणात् || ६३ ।। इति शास्त्रविशारद, कविरत्न, भट्टारकाचार्य श्रीविजयामृत सूरीश्वरप्रणीतायां सप्तसंधानमहाकाव्य-सरणी - टीकायां पष्टः सर्गः ॥ ६ ॥ Aula
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy