SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३५२ महोपाध्याय श्री मेवविजयगणिविरचिते सप्तसम्धानमहाकाव्ये ॥ अथ सप्तमः सर्गः ॥ समवसरणे सत्रा तत्रागमद् रमणैर्भुवः, सकलभरत स्वामी भावी नवोदितचक्रभृत् । धरणिवलयाद श्वक्षुष्णार्जुनोत्थरजोऽणुभि गणिपरिणतैश्वित्रं कुर्वन्नेवाम्बरमम्बरैः ॥ १ ॥ अन्वयः - तत्र समवसरणे भुवः रमणैः सत्रा सकळ भरतस्वामी भावी नवोदितचक्रभृत् वरणिवलयात् अश्वक्षुष्णार्जुनोत्थरजोऽणुमिर्गणि परिणतैः अम्बरैरिव अम्बरं चित्रीकुर्वन् भगमत् ॥ १ ॥ व्याख्या ---तत्र जिनेन्द्रस्य समवसरणस्थाने भुवः पृथिव्याः रमणैः भूपतिभिः सत्रा सह सकल भरतस्वामी सकलानाम् अखिलानां भरतानाम् भरतखण्डानाम् स्वामी अधिपतिः भावी नवोदितचक्रभृत् नवः नूतनः यश्चक्रश्चक्राखः स नवोदितचक्रः तम्बिभर्त्तीति नवोदि तचक्रभृत् नूतनप्रकटितचक्रधारकः भावी भविष्यन् इतो गत्वा चक्रं धारयिष्यतीत्येवंभूतः धरणिवलयात भूमण्डलात् अश्वक्षुष्णार्जुनोत्थरजोऽणुभिः अश्वैः वाजिभिः क्षुष्णाः सम्पिष्टाः अर्जुनाः शुक्काः धवला इत्यर्थः उत्थाः उच्छ्रिता उद्गता ये रजसां धूलीनाम् अणवः क्षुद्रांशाः 'तैः तथोक्तैः तुरङ्गमकुट्टितश्वेतोच्छ्रितधूलिकणैः गणिः गण्यते दिव्यपदप्राप्तया इति गणिः तत्र परिणतैः आकाशपरिणतैः आकाशस्यैः अम्बरैरिववसनैरिव अम्बरम् आकाशम् चित्रम् अद्भुतम् नानावर्णवत् कुर्वन् विदधत् आगमत् आयासीत् ॥ अन्यजिनेन्द्रपक्षेऽपि समानमेतत् ॥ १ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy