SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३५० महोपाध्याय श्री मेघविजय ग णिविरचिते सप्तसन्धान महाकान्जे आकृष्य विविधोत्सव केवलेन अनेकोत्सवप्रधानेन कक्षीचकार कोडीचकार ।। ६२ । कृष्णपक्षे विश्वायाः कंसमातुः अंगजः कंसः तस्य अपहरणात् नाशनात् उद्भवति यः संपरायः संग्रामस्तस्मात् षट्खण्ड भूमि भरतेशकलाधिकारे जरासंधनृपाधिकारे शासने या भुवनाद्भुतराज्यलक्ष्मीः निवृत्य निराकृत्य देवः कृष्णः विविधोत्सव केवलेन अनेक विधमंगप्रधानेन कक्षीचकार स्वायत्तीचकार जरासंधराज्यसक्ष्मीः पराकृत्य स्वाधीनामकरोदित्यर्थः ॥ ६२ ॥ ज्ञानं केवलमार्षभं हरमिते मुख्ये तपस्येऽभवसत्पोषे नवमे सिते हिमरुचा हीनेऽर्यमासेविते । प्राक्कल्याणकवासरेऽन्तिमविभो दिक्संमिते माधवे, राज्ये सा नियतिर्जिने निगदिता रामेऽभिरामे विषा ६३ इतिश्री सप्तसंघाने महाकाव्ये महोपाध्यायश्री मेघविजयगणिविरचिते भगवत्केवलज्ञानसाम्राज्यवर्णनोनाम पष्ठः सर्गः ॥ ६ ॥ अन्वयः -- हरमिते मुख्ये तपस्ये भार्षभं केवलं ज्ञानम् अभवत् सत्पौषे नवमे सिते हिमरुचा अहीनेऽर्यमासेविते प्राक्कल्याणकवासरे अन्तिमविभौ दिसम्म माधवे जिने राज्येसा नियतिर्निगदिता विषा अभिरामे रामे च निगदिता ॥ ६३ ॥ व्याख्या - हरमिते हरेण परिमिते एकादश्याम् मुख्ये प्रधाने तपस्ये फाल्गुने " स्यात्तपस्यः फाल्गुनिक इत्यमरः " आर्षभम् ऋषभ स्वेदम् आर्षभम् ऋषभनाथसंबन्धि केवलं ज्ञानम् केवलज्ञानम् अभवत्, सत्पौषे शोभनपौषमासे नवमे नवमीतिथौ सिते शुक्लपक्षे "अवदात्तः सितो गौरोऽवलो धनलोऽर्जुन इत्यमरः " पौषशुक्ल नवम्याम् शान्तेः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy