________________
आचार्य श्रीविजयातसूरिप्रणीता सरणी टीका, सर्ग - ६
૧
व्याख्या -- विश्वाङ्गजापहरणोद्भवसंपरायात् विश्वः समस्तः कारणं कीर्त्तनमित्याद्यष्टरूपो यः अंगजः कामः तस्य अपहरणे निरा करणे निरसन इत्यर्थः यद्वा तस्य अपहरणाय निराकरणाय उद्भवो जातः यः संपरायः संग्रामः “युद्धायत्योः संपराय इत्यमरः " तस्मात् अष्टविधकामवासनानिराकरणोद्भूतरणात् भुवनाद्भुतराज्यलक्ष्मीः त्रिभुवनविलक्षणराज्य संपदः षट्खंड भूमि भरतेशकलाधिकारे षट्खंडा या भूमिः पृथ्वी ताम्बिभर्त्ति धारयति स्वामित्वेन अधिकरोतीति षट्खंडभूमिभरतः स चासौ ईशवेति षट्खंडभूमिभरतेशः तस्य या कला योगक्षेमरूपा तस्या अधिकारे प्रभुत्वे शासने निवृत्य स्थापयित्वा देवः जिनेन्द्रः विविधोत्सव केवलेन विविधोत्सवेन अनेकविधदेवकृतसमवसरणादिमंगलेन केवलेन केवलज्ञानेन कक्षीचकार कोडीचकार केवलज्ञानवान् सम्पन्नः ॥
-
-
अन्यजिनेन्द्रपक्षे – षट्खण्डभूमि भरते शकलाधिकारे षट्खण्डः यः भूमिभरतः भरतखण्ड भूमिस्तत्र ईष्टे प्रभवतीति षट्खंड भूमि भरतेशः तस्य या कला तदधिकारे भुवनाद्भुतराज्यलक्ष्मीः निवृत्य निराकृत्ये - त्यर्थः षट्खण्ड भूमिभरतेशयोग्यतायामपि तच जग्राहेति तत्वम् ॥
रामपक्षे - देवः देवनशीलः षट्खण्डभूमि भरतेश कलाधिकारे षट्खण्डभूमिम् विभर्तीति " भृ अतच् " पट्खण्ड भूमिभरतः स चासौ ईशश्वति षट्खण्डभूमिभरतेशः कलायाः कृत्स्नायाः अधिकारः कलाधिकारः षट्खण्डभूमिभरतेशस्य कलाधिकारस्तस्मिन् भुवनाभुतराज्यलक्ष्मीः त्रैलोक्यविलक्षणराज्य संपदः रावणाधिकारस्य राज्यलक्ष्मीः विश्वाङ्गजापहरणोद्भवसंपरायात् विश्वांगजायाः जानक्याः अपहरणेन उद्भवः उत्पन्नः यः संपरायः संग्रामस्तस्मात् कारणात् निवृत्य आच्छिद्य रावणाधिकारे या राज्यलक्ष्मीस्ता निवृत्य तत