SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३४८ महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकावे अन्वय:-क्षमादिसहसा योगात् स तु वासुदेवः श्रीलक्ष्मणोपनिहितः बोधः काम तीव्रारिभावम् अधिगम्य दशकन्धरं तं निशम्य ससन्धं स्यात् जरया बिभेद ॥ ६ ॥ ___ व्याख्या-क्षमादिसहसा योगात् क्षमा दयादाक्षिण्यादिरेव सहः बलम् तेन योगात् संबन्धात् वासुदेवः वसु एव वासु तेन दीव्यति प्रकाशते इति वासुदेवः तेजोविशेषेण देदीप्यमानः श्रीलक्ष्मणा तत्तत् स्वस्वविशेषचिह्वेन वृषभादिना एत्य प्राप्य निहितः युक्तः बोधः बुध्यति जानातीतितथा ज्ञानवान् कामम् मदनम् तीव्रारिभावमुल्कटरिषुभावम् शत्रुतामधिगम्य प्राप्य स्थितमिति शेषः दशा मृतिरेवदशकः तन्धरतीति दशकंधरः तम् अनङ्गताङ्गतम् ससन्धम् सप्रतिज्ञम् स्यात् स प्रभुर्जिनेन्द्रः जरया बिभेद निर्वतयामास' युवावस्थायामेव शरीरपाताजरायोगो नैव प्रापेति भावः ।। रामकृष्णपक्षे-क्षमादिसहो बलं यस्य स क्षमादिसहा तेन क्षमादिसहसा उपलक्षितः क्षमादिबलवान् बोधः ज्ञानवान् श्रीलक्ष्मणा श्रीरेवलक्ष्म चिह्नम् तेन श्रीलक्ष्मणा एत्य निहितः श्रीलक्ष्मोपलक्षितः स तु वासुदेवः श्रीरामलक्ष्मणः कृष्णबलदेवश्च तीव्रारिभावम् अति. शयविपक्षभृतम् अधिगम्य बुध्वा तं दशकंधरं कामम् यथेष्टम् निशम्य दृष्ट्वा जरया ससन्धम् जरयायुक्तं संधम् जरासंधम् प्रतिवासुदेवम् स्यात् शीघ्रम् बिभेद चिच्छेद निहतवान् ।। ६१ ॥ विश्वाङ्गजापहरणोद्भवसंपरायात् , षट्खण्डभूमिभरतेशकलाधिकारे । देवो निवृत्य भुवनाद्भुतराज्यलक्ष्मीः, कक्षीचकार विविधोत्सवकेवलेन ॥ ६२ ॥ अन्त्रयः—विश्वांगजापहरणोद्भवसंपरापात् षट्खण्डभूमिभरतेशकलाधिकारे देवः भुवनाद्भुतराज्यलक्ष्मीः निवृत्य विविधोत्सवकेवलेन कक्षीचकार ॥ ६२ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy