SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-६ ३४७ योजकविधौ जायते इति यागजा सा चासौ दशा चेति यागजदशा इव न भातिस्म न शोभतेस यथा वध्यपशो तात्कालिकीदशा न शोभते तथा प्रभावशालिनि नृपमण्डलेऽपि यागजदशायुद्धरूपयजनदशा न भातिस्मेति भावः ॥ ६० ॥ अत्र श्लोके वसन्ततिलकं वृत्तम् "ज्ञेयम् वसन्ततिलकं तभजा जगौग" इति तल्लक्षणात् ।। रामपक्षे-प्रभाविनि प्रभवितुं शीलं यस्य स प्रभावी तस्मिन् प्रभावशालिनि दशाननराजराजि दशाननराजः राजा यस्य स दशाननराजराट् तस्मिन् तथोक्ते चके मण्डले या गजदशाननराजराजिः गजः मत्तः विवेकशून्य इत्यर्थः यः दशाननः स चासो राजा चेति गजदशाननराजः तस्य राजिः तदीय पक्षीयश्रेणी भातिस्म शोभतेस्म हेनर प्रभाविनि प्रभावशालिनि दशाननराजराजि भाति चके दशानन· राजस्य या राजिः तत्पक्षीयश्रेणी तत्र चके भाति देदीप्यमाने सति तदीयपक्षे चक्रे प्रभवति सति स्मयागजदशा न गच्छतीत्यगः स्मयोऽहंकार एवागः स्मयागः तस्माजायते इति स्मयागजा मा चासो दशा चेति स्मयागजदशा अहंकारगिरिसंभूता दशा आजराजि आजस्य संग्रामस्स राजि प्रांगणे रणभूमौ न भातिमन राजतेस्म देहलीदी पन्यायेन भातीत्यस्योभयत्रान्वयः ॥ ___ कृष्णपक्षे-जरासंधरूपविपक्षराजदशाधादिरूपेण व्याख्यावसेया । प्रकृतेव्यपेतभेदाख्यः समुद्यमकालंकारः 'अर्धाभ्यास:--समुद्गःस्या' दिति सरस्वतीकण्ठाभरणोक्तेः ॥ ६०॥ योगारक्षमादिसहसा दशकन्धरं-तं, तीवारिभावमधिगम्य निशम्य कामम् । बोधो बिभेद सरयाजरया ससन्धं, श्रीलक्ष्मणेत्य निहितः स तु वासुदेवः ॥ ६१ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy