________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-1 ११३ दशाननभा ताम् अस्थति विक्षिपति तिरस्करोतीति दशाननभासुरः "अस्यते वास्यतीत्यादि नौणादिक उर प्रत्ययः” दशाननशोभानिराकरिष्णुः सुमित्राङ्गजसंगत्या सुमित्राया अङ्गजा तनयः सुमित्रांगजः तस्य संगत्या यः सुमित्रांगजः स कदाचिदपि दुर्मित्रं न सहत इत्यन्वर्थतया अलिमुक्ते णमोचनात् पतत्रित्वेन साम्यादलिशब्दस्य बाणार्थतेति भावः दानकार्यसारः दानं च्छेदनमेव कार्यसारं यस्य स अभाव अशोभत ॥ यद्वा ।
स रावणः मुमित्राङ्गजसंगत्या अङ्गाजायते अङ्गजा सुमित्रं च सोऽङ्गजश्चेति सुमित्राङ्गजः कामस्तस्य संगत्या संगमेन कामपराधीन. तया दशानन भासुरः दशाननेन शोममानः लक्ष्मणाधिपः लक्ष्मणानां लक्ष्मीयतामधिपा अलिमुक्तेर्वाणमोचनादानकार्यसारः लेदनपटुः अभाव अशोभत ।।
कृष्णपक्षे-मुष्ठ भेद्यति स्निह्यतीति सुमित्रं तच्चासावङ्गाजश्चेति सुमित्राङ्गजः प्रद्युम्नः यद्वा सुमित्रः अर्जुनस्तस्याङ्गजोऽभिमन्युः तस्य संगत्या सम्मेलनेन दशाननभासुरः दशदिक्षु शोभमानः लक्ष्मणाधिपः लक्ष्मणायाः स्वपत्न्या अधिपः कृष्णस्स अलिमुक्तेः वाणमोचनात् दानकार्यसारः वेदनकार्यतत्परः अभात् अराजत ।। ५७ ।। नरक्षितिं परपरिग्रहाद विदन् स चारिणा । विभिदे हरिणा दर्प धरन्मन्दोदरीवरः ॥ ५८ ॥
भन्वयः-परपरिग्रहात नरक्षितिम् विदन दपं धरन् मन्दोदरीवरः स चारिणा हरिणा विभिदे ॥ ५८ ॥
व्याख्या-~परपरिग्रहात् परेषामन्येषाम् परिग्रहः कलत्रम् तस्मात् अन्यस्त्रीसंसर्गात् नरक्षितिम् त्रियते इति नरः नयः तस्य क्षितिम् नाशम् विदन् जानन् दर्पम् अहंकारं धरन् बिभ्रत् मन्दोदरी. वरः मन्दं कृशमुदरं यस्याः सा मन्दोदरी इति तस्याः वरः पतिः