SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धानमहाकान्चे जनसहितं समुदायं प्राप्य लब्ध्वा तत्सभामासाद्य भेदम् पापपुण्यवि वेचनम् जीवाजीव विवेचनम् वा यद्वा अविद्याभेदम् आदधे स्वकीयसदुपदेशेन विवेचयामास तत इति शेषः जयजयारवः जयजयध्वनिः जज्ञे सर्वे जना उपदेशामृतामास्वाद्य जयशब्दं चक्रुरित्यर्थः ॥ - रामकृष्णपक्षे – स नरः लक्ष्मणः कृष्णो वा वासवम् चक्रं वसुरस्मिन्नस्तीति वासवम् समृद्धम् राजमण्डलम् सालंकारसमासन्नम् आभूषणसहितसमागतम् शौर्यादिगुणभूषणसमन्वितम् चक्रं राजमण्डलम् प्राप्य लब्ध्वा समासाद्य तद्भेदं तदीयच्छेदम् आदधे समृद्धशूरराजमण्डलस्य छेदनम् छिन्नभिन्नमाचक्रे तेनेति शेषः जयजयारवः जयजयस्वनः जज्ञे जयजयशब्दं चक्रे ।। ५६ ॥ ३४२ सुमित्राङ्गज संगत्या सदशाननभासुरः । अलिमुक्तेर्दानकार्य - सारोऽभालक्ष्मणाधिपः ॥ ५७ ॥ अन्वयः --- सुमित्रांगजसंगत्या दशाननभासुरः लक्ष्मणाधिपः भलिमुक्तेदानकार्यसारः अभात् ॥ ५९ ॥ व्याख्या - सुष्ठु भेद्यति स्निह्यति अनुबभातीति सुमित्रम् केवलज्ञानम् तदेवाङ्गजम् स्वतन्त्रत्वात् इति सुमित्राङ्गजम् तस्य संगत्या सम्बन्धेन केवलज्ञानयोगेन दशाननभासुरः दशसु दिक्षु आननं सुखमुपदेशकाले यस्य स दशाननः तेन भासुरः दीप्यमानः लक्ष्मणाधिपः लक्ष्म चिह्नमेव लक्ष्मणं ' स्वार्थेऽण् ' तत् अधिपाति रक्षति स्वसङ्गेन धारयतीति लक्ष्मणाधिपः अलिमुक्तेः अलेः सुरायाः मुक्तेस्त्यागात् सर्वथा वर्जनात् दानकार्यसारः दानकार्यमुपदेशनमेव सारो यस्य स अभात् अशोमिष्ट || ५७ || अलिभ्रमरेऽष्टश्चिके काके कोकिले सुरायाचेति शब्दस्तोममहानिधिः ॥ रामपक्षे - स लक्ष्मणाधिपः लक्ष्मणश्वासौ अधिपश्चेति लक्ष्मणाधिपः लक्ष्मणाभिन्नो नृपः दशाननभासुरः दशाननस्य भा दीप्तिः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy