SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-६ ૪. भीष्मः तयोर्द्वन्द्वः ताभ्यामाहितः स्थापितः जनितः यः पराभवः दुःखम् स अस्तः निरस्तः जिनेन्द्रतेजसा केषामपि कुतश्चिदपि भयो न जात इति तत्वम् ॥ ५५ ॥ रामपक्षे -- विजयते इति विजयो रामः शांभवम् शंभुसंबन्धिनं विजयावहं वा कर्णेजपम् कर्णे किमपि कथयतीवेति कर्णपर्यन्तमाकुष्टम् धनुः आश्रित्य मौर्वीङ्कर्णपर्यन्तमाकृष्य प्राहरत् ततेजसाऽऽकर्णाकृष्टवाणस्य तेजसाऽनुभावेन द्रोणभीष्माहितपराक्रमः हिंषकभीषकजनितदुःखम् अस्तः निराकृतः ॥ P कृष्णपक्षे - विजयः अर्जुनः कर्णेजपम् सूचकमाश्रित्याभिलक्ष्य शांभवम् शंभुदत्तम् गाण्डीवं धनुः प्राहरत् प्रहृतवान् तत्तेजसा तन्महिना द्रोणभीष्माहितपराक्रमः द्रोणश्च भीष्मश्चेति द्वन्द्वस्तयोराहितः स्थापितः पराभवः विपत्तिः अस्तः निर्विष्टः द्रोणादिषु कर्णानन्तरं पराभवो जातः अथवा शांभवं शम्भुदेवताकं जपं भजनमाश्रित्य कर्णे कर्णनामनि राज्ञि प्राहरत् अथवा संप्रति कर्णार्जुनीययुद्धे द्रोणभीष्माहितपराभवः युद्धव्यसनः अस्तः निराकृतः ।। ५५ ।। नरः सवासवं चक्रं प्राप्य तद्भेदमादधे । सालङ्कारसमासन्नं जज्ञे जयजयारवः जयजयारवः ॥ ५६ ॥ अन्वयः - नरः सवासवं सालंकारसमासनं चक्रं प्राप्य तद्भेदम् आदधे जयजयारवः जज्ञे ॥ ५६ ॥ व्याख्या -- नृणाति विशुद्धधर्म प्रचारयतीति नरः जिनेन्द्रः वासवेन महेन्द्रेण सहितं सवासवम् सेन्द्रम् सालङ्कारसमासन्नम् अलंकारेण सहितः सालंकारः सालंकारेण समासन्नः समागतः इति सालंकारसमासन्नः सभूषणसन्निहितस्तम् चक्रम् संघम् इन्द्रमण्डित
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy