________________
३४० महोपाध्याय श्रीमेघविजयगणिविरचिते सप्लसम्धानमहाकाब्बे वाहो वाहनं यस्य तेन विवाहेन गरुत्मद्वाहनेन कारणेन तत्क्षणे रावणयुद्धसमये श्रियः विजयलक्ष्मीः यद्वा श्रियः रावणसम्पदः अगा. हत अप्राप्नुत ।। ५४ ॥
अथवा अगति कुटिलं गच्छतीति अग् "कर्तरि विप्" न अग् नाम् तेन नागा अकुटिलगामिना अहतविवाहेन अपराहतगरुत्मद्वाहनेन उपलक्षितः श्रियः विजयलक्ष्म्याः सदृशः योग्यः सदृशः ज्ञानवान् ना नरः विवाहेन श्रियः रावणराजलक्ष्मीः अगाहत आसादयत् ।।
कृष्णपक्षे-नागयोः पद्मोत्तरचंपकयोः यत् आहतम् आहननम् तत् नागाहतम् विपक्षी गरुडः स एव वाहनम् इति विवाहनम् नागाहतश्च विवाहश्च इति नामाहतविवाहः तेन नागाहतविवाहेन उपलक्षितः तत्क्षणे तत्समये श्रियः लक्षम्याः सदृशः योग्यः ना पुरुषः तत्क्षणे शिशुपाल वाहोत्सवे सदृशः शोभनयनाः श्रियः रुक्मिणी विवाहेन राक्षसविबाहेन अगाहत अप्राप्नोत् ॥ श्लोकाध्यमकं प्रकृते ।। प्राहरद्विजयः कणें-जपमाश्रित्य शाम्भवम् । अस्तस्तत्तेजसा द्रोण-भीष्माहितपराभवः ॥ ५५ ॥
अन्ययः-विजयः शाम्भवमाश्रित्य कर्णेजपम् प्राहरत् तत्तेजसा द्रोण- . भीष्माहित पराभवः न्यस्तः ॥ ५५ ॥
व्याख्या-विजयते कपायादीनिति विजयः शाम्भवम् शं कल्याणम् जनानामिति शेषः भवत्यनेनेति शंभवस्तस्य भावस्तम् आश्रित्य अभिलक्ष्य कर्णेजपम् सूचकम् प्राहरत् निरस्यत् यदि कर्णेजपानां स्थिभवेत्तदा कदाचिदपि लोककल्याणं न संभाव्य ते इति विचार्य तं निशस्यदिति भावः " कर्णेजपः सूचकः स्थापिशुनो दुर्जनः खल इत्यमरः" तत्तेजसा तस्य जिनेन्द्रस्य तेजसा प्रभावेन द्रोण भीष्माहितपराभवः द्रुणति हिंसयति कौटिल्ययतीति द्रोणः भीषयतीति